श्रवणम्

3.52.8 समानपद
प्रति᳚ धा॒ना भ᳚रत॒ तूय᳚मस्मै पुरो॒ळाशं᳚ वी॒रत᳚माय नृ॒णाम् ।
दि॒वेदि᳚वे स॒दृशी᳚रिन्द्र॒ तुभ्यं॒ वर्ध᳚न्तु त्वा सोम॒पेया᳚य धृष्णो ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । धा॒नाः । भ॒र॒त॒ । तूय᳚म् । अ॒स्मै॒ । पु॒रो॒ळाश᳚म् । वी॒र॑त᳚माय । नृ॒णाम् ।
दि॒वे॑दि᳚वे । स॒॑दृशीः᳚ । इ॒न्द्र॒ । तुभ्य᳚म् । वर्ध᳚न्तु । त्वा॒ । सो॒म॒॑पेया᳚य । धृ॒ष्णो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानोऽध्वर्य्वादीन्प्रति बृते । हे अध्वर्व्यादयः अस्मा इन्द्राय धानास्तूयं क्षिप्रं प्रति भरत । सम्पादयत । नृणां वीरतमायास्मा इन्द्राय पुरोडाह्सं च सम्पादयत । अथ प्रत्यक्षकृतः । हे धृष्णो शत्रूणामभिभवनशील हे इन्द्र सदृशीरेकविधाः स्तुतयस्तुभ्यं त्वदर्थं दिवे दिवे प्रतिदिवसमस्माभिः क्रियन्ते । ताः स्तुतयः सोमपेयाय सोमपानार्थं त्वां वर्धन्तु । उत्साहेन प्रवृद्धं कुर्वन्तु । सदृशीः । समानान्ययोश्चेति कञ्प्रत्ययः । टिड्ढाणञित्यादिन ङीप दृग्दृशवतुष्विति समानस्य सभावः ॥ ८ ॥