श्रवणम्

3.52.1 समानपद
धा॒नाव᳚न्तं कर॒म्भिण᳚मपू॒पव᳚न्तमु॒क्थिन᳚म् ।
इन्द्र᳚ प्रा॒तर्जु᳚षस्व नः ॥
▶ पदपाठः (Word-by-word)
धा॒ना॑व᳚न्तम् । क॒र॒म्भिण᳚म् । अ॒पू॒प॑व᳚न्तम् । उ॒क्थिन᳚म् ।
इन्द्र᳚ । प्रा॒तः । जु॒ष॒स्व॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र धानावन्तम् । धान भृष्टयवाः । तद्वन्तः करम्भिणम् । करम्भो दधिमिश्राः सक्तवः । तद्वन्तमपूपवन्तं सवनियपुराडाशोपेतमुक्थिनं शस्त्रिनं नोऽस्मदीयमिमं सोमं प्रातः प्रातःसवने जुषस्व । प्रातः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः ॥ १ ॥