श्रवणम्

3.52.6 समानपद
तृ॒तीये᳚ धा॒नाः सव᳚ने पुरुष्टुत पुरो॒ळाश॒माहु᳚तं मामहस्व नः ।
ऋ॒भु॒मन्तं॒ वाज᳚वन्तं त्वा कवे॒ प्रय᳚स्वन्त॒ उप᳚ शिक्षेम धी॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
तृ॒तीये᳚ । धा॒नाः । सव᳚ने । पु॒रु॒॑स्तु॒त॒ । पु॒रो॒ळाश᳚म् । आ॑हु᳚तम् । म॒म॒ह॒स्व॒ । नः॒ ।
ऋ॒भु॒॑मन्त᳚म् । वाज᳚॑वन्तम् । त्वा॒ । क॒वे॒ । प्रय᳚स्वन्तः । उप᳚ । शि॒क्षे॒म॒ । धी॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तृतीय सवने सवनीयपुरोडाशस्य तृतीये धाना इत्यनुवाक्या । सूत्रितं च । तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने । आ. ५-४ । इति ॥

हे पुरुष्टुत पुरुभिर्बहुभिः स्तोतृभिः स्तुत हे इन्द्र तृतीयए सवने नोऽस्मदीयान्धाना हुतान् भृष्टयवानाहुतं पुरोडाशं च मामहस्व । भक्षणेन महय । संभावय । हे कवे इन्द्र प्रयस्वन्तः संभृतहविष्का वयमृभुमन्तम् । ऋभवो ये केचन देवास्तद्वन्तम् । वाजवन्तम् । वाचो नाम सुधन्वनः पुत्रस्तद्वन्तं त्वां धीतिभिः स्तुतिभिरुप शिक्षेम । समीपे परिचरेम । आहुतम् । जुहोतेः कर्मणि क्तः । गतिरनन्तर इति गतेः स्वरः । मामहस्व । मह पूरायामित्यस्य यङ् लुगन्त्यस्य लोटि व्यत्ययेनात्मने पदम् । शपो लुगाभावश्छान्दसः । शिक्षेम । शिक्षतेराशीर्लिङि लिङ्यातिष्यङ्गित्यङ् प्रत्य्त्यः । निघातः । धीतिभिः । हिष्थवत्सरतिशत्थान्तानामित्यन्तोदात्तत्वं ॥ ६ ॥