पू॒ष॒ण्वते᳚ ते चकृमा कर॒म्भं हरि᳚वते॒ हर्य᳚श्वाय धा॒नाः ।
अ॒पू॒पम᳚द्धि॒ सग᳚णो म॒रुद्भि॒ः सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ॥
अ॒पू॒पम᳚द्धि॒ सग᳚णो म॒रुद्भि॒ः सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ॥
पदपाठः (Word-by-word)
पू॒ष॒ण्॑वते᳚ । ते॒ । च॒कृ॒म॒ । क॒र॒म्भम् । हरि᳚॑वते । हरि᳚॑अश्वाय । धा॒नाः ।
अ॒पू॒पम् । अ॒द्धि॒ । स॑ग᳚णः । म॒रुत्॑भिः᳚ । सोम᳚म् । पि॒ब॒ । वृ॒त्र॒॑हा । शू॒र॒ । वि॒द्वान् ॥
अ॒पू॒पम् । अ॒द्धि॒ । स॑ग᳚णः । म॒रुत्॑भिः᳚ । सोम᳚म् । पि॒ब॒ । वृ॒त्र॒॑हा । शू॒र॒ । वि॒द्वान् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र पूषण्वते । पूष नाम कश्चिद्देवोऽदन्तकः । तद्वते ते तुभ्यं करंभं दधिमिश्रं सक्तुं चकृम । भक्षणार्थं कुर्मः । तथा च श्रुतिः । पूशा प्रपिष्त भागोऽदन्तको हि । तै. सं. २-६-८ । इति हरिवते । हरिनामकावश्वौ । तद्वते चर्यश्वाय हरितवर्णाश्वयुक्तायेन्द्राय तुभ्यं धाना भक्षणार्थं कुर्मः । तथा च मन्त्रवर्णः । ग्रसेकामश्वावि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः । ऋग्वे. ३-३५-३ । इति मरुद्भिः सगणस्त्वमपूपं पुरोढाशमद्धि । भक्षय । हे शूर असहाय हे इन्द्र वृत्रहा वृत्रस्य हन्ता विद्वान् सर्वं चानानस्त्वं सोमं पिब । पूशण्वते पूषब्दस्य मतुप् । अनो नुडिति नुदागमः । रषाभ्यामिति णत्वम् । चकृम । करोतेश्छान्दसे वर्तमाने लिटि क्रादित्वादिडभावः । निघातः । हरिवते । छन्दसीर इति मतुपो वत्वं ॥ ७ ॥