अ॒यं मि॒त्रो न᳚म॒स्य᳚ः सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो अ᳚जनिष्ट वे॒धाः ।
तस्य᳚ व॒यं सु᳚म॒तौ य॒ज्ञिय॒स्यापि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥
तस्य᳚ व॒यं सु᳚म॒तौ य॒ज्ञिय॒स्यापि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥
पदपाठः (Word-by-word)
अ॒यम् । मि॒त्रः । न॒म॒स्यः᳚ । सु॒॑शेवः᳚ । राजा᳚ । सु॒॑क्ष॒त्रः । अ॒ज॒नि॒ष्ट॒ । वे॒धाः ।
तस्य᳚ । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिय᳚स्य । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
तस्य᳚ । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिय᳚स्य । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
अयं पूर्वमन्त्रे प्रतिपादितो मित्रः सूर्यो नमस्यः सर्वैर्नमस्करणीयः सुशेवः शोभनसुखः । सुखेन सेव्य इत्यर्थः । राजा सर्वस्य जगतः प्रकाशप्रदानेन स्वामी सुक्षत्रः । क्षत्रशब्देन बलमुच्यते । शोभनबलोपेतो वेधाः सर्वस्य जगतो विधाता । एवं गुणोपेतः सूर्योऽजनिष्ट । प्रादुरभूत् । तस्यैवं विधगुणोपेतस्य यज्ञियस्य यज्ञार्हस्य सूर्यस्य सुमतौ शोभनायां बुद्ध्यां भद्रे कल्याणकारिणि स्ॐअनसे स्ॐअनस्येऽपि यजमाना वयं स्याम । भवेम । नमस्यः नमसि साधुः । तत्र साधुरिति यत् । तित्स्वरितः । आजनिष्ट । जनी प्रादुर्भाव इत्यस्य लुङि सिचि रूपम् । स्ॐअनसे । सुमनस इदमित्यर्थे तस्येदमित्यण् । प्रत्ययस्वरः ॥ ४ ॥