मि॒त्रः कृ॒ष्टीरनि᳚मिषा॒भि च᳚ष्टे मि॒त्राय᳚ ह॒व्यं घृ॒तव᳚ज्जुहोत ॥
पदपाठः (Word-by-word)
मि॒त्रः । कृ॒ष्टीः । अनि᳚॑मिषा । अ॒भि । च॒ष्टे॒ । मि॒त्राय᳚ । ह॒व्यम् । घृ॒त॑व᳚त् । जु॒हो॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
ब्रुवाणः स्तूयमानः शब्दं कुर्वाणो वा मित्रः । प्रकर्षेण सर्वैर्मीयते ज्ञायते तथा सर्वान्वृष्टिप्रदानेन त्रायत इति वा मित्रः सूर्यः । जनान् कर्षकादिजनान्यातयति । कृष्यादिकर्मसु प्रयत्नं कारयति । तथा मित्र एव पृथिवीमुतापि च द्यामेतावुभौ लोकौ वृष्टिद्वारान्नं यागांश्च जनयन् दाधार । धारयति । तथा सति मित्रोऽनिमिषानिमेषाणानुग्रहदृष्ट्या कृष्टीः कर्मवतो मनुष्यानभि चष्टे । सर्वतः पश्यति । एतत्सर्वं ज्ञात्वा हे ऋत्विजो घृतवदुपस्तरणाभिघारनयुक्तं हव्यं हवनयोग्यं पुरोडाशादिकं तस्मै मित्राय देवाय जुहोत । जुहुत । प्रयच्छतेत्यर्थः । उक्तार्थं यास्को ब्रवीति । मित्रो जनान्यातयति ब्रुवाणः शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिवं च । मित्रः कृष्टीरनिमिषन्नभिपश्यतीति । कृष्तय इति मनुष्यनाम कर्मवन्तो भवन्ति विकृष्टदेहा वा । मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातम् । जुहोतिर्दानकर्मा । नि. १०-२२ । इति यातयति । यती प्रयत्न इत्यस्य ण्यन्तस्य लटि रूपम् । दधार । तुजादीनामित्यभ्यासस्य दीर्घः । जुहोत । जुहोतेर्लोटि प्रत्ययस्य तबादेशः । गुणः । निघातः ॥ १ ॥