श्रवणम्

3.59.7
अ॒भि यो म᳚हि॒ना दिवं᳚ मि॒त्रो ब॒भूव᳚ स॒प्रथा᳚ः ।
अ॒भि श्रवो᳚भिः पृथि॒वीम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । यः । म॒हि॒ना । दिव᳚म् । मि॒त्रः । ब॒भूव᳚ । स॒॑प्रथाः᳚ ।
अ॒भि । श्रवः᳚॑भिः । पृ॒थि॒वीम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातर्होमस्य कालात्यये मैत्रेष्टिः । तस्यामभि यो महिनेत्यनुवाक्या । सूत्रितं च । अभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वान् । आ. ३-१२ । इति ।

यो मित्रो महिना स्वकीयेन महिम्ना दिवमन्तरिक्षमभि बभूवाभिभवति स मित्रः सप्रथाः प्रथः प्रसिद्धिः कीर्तिः । तत्सहितः श्रवोभिर्वृष्टिद्वारोत्पादितैरन्नैः पृथिवीमप्यभिभवति । बह्वन्नयुक्तां करोतीत्यर्थः । सप्रथाः । पथ प्रख्याने । असुन् । वोपसर्जनस्येति सहस्य सभावः ॥ ७ ॥