श्रवणम्

3.59.5
म॒हा{4} आ᳚दि॒त्यो नम᳚सोप॒सद्यो᳚ यात॒यज्ज᳚नो गृण॒ते सु॒शेवः᳚ ।
तस्मा᳚ ए॒तत्पन्य᳚तमाय॒ जुष्ट᳚म॒ग्नौ मि॒त्राय᳚ ह॒विरा जु᳚होत ॥
▶ पदपाठः (Word-by-word)
म॒हान् । आ॒दि॒त्यः । नम᳚सा । उ॒प॒॑सद्यः᳚ । या॒त॒यत्॑ज᳚नः । गृ॒ण॒ते । सु॒॑शेवः᳚ ।
तस्मै᳚ । ए॒तत् । पन्य᳚॑तमाय । जुष्ट᳚म् । अ॒ग्नौ । मि॒त्राय᳚ । ह॒विः । आ । जु॒हो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽयमादित्यो महान् अत एव नमसा नमस्कारेणोपसद्यः सर्वैरुपसदनीयो यातयज्जनः । प्रातः प्रातः स्वस्वकर्मणि प्रवर्तनीया जना येनेति सतथोक्तः । गृणते स्तोत्रं कुर्वते जनाय सुशेवश्च भवति तस्मै पन्यतमाय स्तुत्यतमाय मित्रायादित्याय जुष्टं प्रीतिविषयमेतद्धविरग्नावा जुहोत । जुहुत । यातयज्जनः । यती प्रयत्न इत्यस्य ण्यन्तस्य शतरि रूपम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरे प्राप्ते मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम् । गृणते । गॄ शब्दे । शतुरनुम इति विभक्तेरुदात्तत्वम् । पन्यतमाय । पनतेरघ्न्यादित्वाद्यत् । यतोऽनाव इत्याद्युदात्तत्वम् । जुष्टम् । नित्यं मन्त्र इत्याद्युदात्तत्वं ॥ ५ ॥