श्रवणम्

3.59.9
मि॒त्रो दे॒वेष्वा॒युषु॒ जना᳚य वृ॒क्तब᳚र्हिषे ।
इष᳚ इ॒ष्टव्र᳚ता अकः ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । दे॒वेषु᳚ । आ॒युषु᳚ । जना᳚य । वृ॒क्त॑ब᳚र्हिषे ।
इषः᳚ । इ॒ष्ट॑व्र᳚ताः । अ॒क॒रित्य᳚कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रो भववानादित्यो देवेषु द्योतमानादिगुणयुक्तेष्वायुषु मनुष्येषु मध्ये यो जनो व्रुक्तबर्हिः । वृक्तं लूनं बर्हिर्येन सः । बर्हिर्लवनासादनपुर्वं हविषो दाता ऋत्विगित्यर्थः । तस्मै व्रुत्कबर्हिषे जनायेष्टव्रताः । इष्टानि कल्याणानि व्रतानि कर्माणि याभिः सिध्यन्ति ता इषस्तादृशान्यन्नान्यकः । करोति । तस्मै ददातीत्यर्थः । व्रुक्तबर्हिषे । ओव्रश्चू छेदने । कर्मणि निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । बहुव्रीहौ पूर्वपदस्वरः । अकः । करोतेर्लु~इ च्लेर्मन्त्रे घसेत्यादिना लुक् । सिपो हल्ङ्यादिलोपः । निघातः ॥ ९ ॥