तं स॒बाधो᳚ य॒तस्रु᳚च इ॒त्था धि॒या य॒ज्ञव᳚न्तः ।
आ च᳚क्रुर॒ग्निमू॒तये᳚ ॥
आ च᳚क्रुर॒ग्निमू॒तये᳚ ॥
पदपाठः (Word-by-word)
तम् । स॒॑बाधः᳚ । य॒त॑स्रु᳚चः । इ॒त्था । धि॒या । य॒ज्ञ॑व᳚न्तः ।
आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये᳚ ॥
आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सबाधः । रक्षोघ्न मन्त्रोच्चारणेन तद्विषयबाधा सह वर्तन्त इति सबाधः । यज्ञवन्तो यजनीयहविर्युक्ता यतस्रुचः । यताः संयताः स्रुचो जुह्वाद्यायैस्ते यतस्रुचः । ऋत्विजः । इत्थेत्थमनेन प्रकारेण क्रियमाणया धिया स्तुत्या तमेवम्भूतमग्निमूतये राक्षबाधाद्रक्षणाय आ अभिमुखं चक्रुः । कुर्वन्ति ॥ सबाधः । बाधृ विलोडन इत्यस्मात् क्विप् । कृदुत्तरपदस्वरः । इत्था । इदंशब्दात्प्रकारार्थ इदमस्थमुः । तस्य सुपां सुलुगिति डादेशः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । चक्रुः । डुकृञ् करण इत्यस्य लिट्युसि यणादेशे कृते तस्य द्विर्वचनेऽचीति स्थानिवद्भावाद्द्विर्वदनम् । निघातः ॥ ६ ॥