होता᳚ दे॒वो अम᳚र्त्यः पु॒रस्ता᳚देति मा॒यया᳚ ।
वि॒दथा᳚नि प्रचो॒दय᳚न् ॥
वि॒दथा᳚नि प्रचो॒दय᳚न् ॥
पदपाठः (Word-by-word)
होता᳚ । दे॒वः । अम᳚र्त्यः । पु॒रस्ता᳚त् । ए॒ति॒ । मा॒यया᳚ ।
वि॒दथा᳚नि । प्र॒॑चो॒दय᳚न् ॥
वि॒दथा᳚नि । प्र॒॑चो॒दय᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
होता होमनिष्पादकोऽमर्त्यो मरणधर्मरहितो देवो द्योतमानो विदथानि वेदितव्यानि कर्माणि प्रचोदयन् प्रकर्षेण प्रेरयन् सोऽग्निर्मायया कर्मविषयाभिज्ञानेन युक्तः सन् पुरस्तात्कर्मप्रारम्भकाल एवैति । अस्मानागच्छति । मायया । माङ् माने शब्दे चेत्यस्माच्छाससिसूभ्यो य इति कर्तरि कर्मणि वा यप्रत्ययः । मिमीते जानीते कर्म मीयतेऽनयेति वा माया कर्मविषयज्ञानम् । प्रत्ययस्वरः । विदथानि । विद ज्ञान इत्यस्माद्रुदिविदिभ्यां किदिति कर्मण्यथप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः ॥ ७ ॥