श्रवणम्

3.27.8
वा॒जी वाजे᳚षु धीयते॑ध्व॒रेषु॒ प्र णी᳚यते ।
विप्रो᳚ य॒ज्ञस्य॒ साध᳚नः ॥
▶ पदपाठः (Word-by-word)
वा॒जी । वाजे᳚षु । धी॒य॒ते॒ । अ॒ध्व॒रेषु᳚ । प्र । नी॒य॒ते॒ ।
विप्रः᳚ । य॒ज्ञस्य᳚ । साध᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजी बलवानग्निर्वाजेषु युद्धेषु धीयते । देवैः शत्रुहननार्थं निधीयते । किञ्च । अध्वरेष्वग्निहोत्रादिषु प्रणीयते । अध्वर्व्यादिभिः प्रकर्षेणाहवनीयादिस्थानेषु प्रक्षिप्यते । अत एव विप्रोमेधावी सन्नग्निर्यज्ञस्याग्नि होत्रादेः साधनः साधको भवति ॥ धीयते । दधातेः कर्मणि यक् । घुमास्थागापेत्यादिना ईत्वम् । निघातः । नीयते । णिञ् प्रापण इत्यस्य कर्मणि यकि रूपम् । उपसर्गादसमासेऽपि णोपदेशस्येति णत्वम् । साधनः । साध सम्सिद्धौ । नन्द्यादित्वात्कर्तरि ल्युः । लित्स्वरः ॥ ८ ॥