वृष᳚णं त्वा व॒यं वृ᳚ष॒न्वृष᳚ण॒ः समि᳚धीमहि ।
अग्ने॒ दीद्य᳚तं बृ॒हत् ॥
अग्ने॒ दीद्य᳚तं बृ॒हत् ॥
पदपाठः (Word-by-word)
वृष᳚णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष᳚णः । सम् । इ॒धी॒म॒हि॒ ।
अग्ने᳚ । दीद्य᳚तम् । बृ॒हत् ॥
अग्ने᳚ । दीद्य᳚तम् । बृ॒हत् ॥
सायणभाष्यम् (Sayana Commentary)
वृषन् कामानां वर्षितर्हे अग्ने वृषणो वृषाणो घृताज्याहुतीनां सेक्तारो वयं वृषणमाहुतिद्वारोदकस्य सेक्तारम् । तथा च स्मृतिः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु. ३-७६ । इति दीद्यतं दीप्यमानं बृहदत एव महान्तं तमिममग्निं समिधीमहि । सम्यग्दीपयामः ॥ इधीमहि । ञि इन्धी दीप्तावित्यस्य प्रार्थने लिङि नकारलोपश्छान्दसः । निघातः । दीद्यतम् । दीदेतिर्दीप्तिकर्मा । तस्य शतरि रूपम् । अभ्यस्तानामादिरित्याद्युदात्तत्त्वम् । ॥ १५ ॥