तपो᳚ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते᳚ तिष्ठन्ताम॒जरा᳚ अ॒यासः᳚ ॥
पदपाठः (Word-by-word)
तपो॒ इति᳚ । व॒सो॒ इति᳚ । चि॒कि॒ता॒नः । अ॒चित्ता᳚न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः᳚ । अ॒यासः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने अन्तरान् अभिभावकानमित्राञ्छत्रून सु सुष्ठु यथा भवति तथा तपो । तपैव । भावस्व । किञ्च । अररुषस्तुभ्यं हविरप्रयच्छतोऽत एव परस्य शत्रुभूतस्य स्वं शंसमभिलाषं तप । क्षपय । वसो सर्वस्य वासयितर्हे अग्ने चिकितानः कर्माभिज्ञस्त्वमचित्तान् सत्कर्मण्यनासक्तमनस्कान्पुरुषान् तपो । सन्तप । यस्मादेवं तस्मात्ते तव रश्मयोऽजरा जरारहिता प्रतिबन्धारहिता अत एव अयासः सर्वत्र गमनस्वभावाः सन्तो वि तिष्ठन्ताम् । विशेषेण तिष्ठन्तु ॥ तपो । तप उ । गुणः । उ- ञमवलम्ब्य उ ञ इति प्रगृह्यसंज्ञा । पादादित्वादनिघातः । तपा । तप सन्ताप इत्यस । लोटि रूपम् । द्व्यचोऽतस्तिङ इति सम्हितायां दीर्घः । आररुषः रा दान इत्यस्य क्वसौ वस्वेकाजिति प्राप्तस्येटः सम्प्रसारणं सम्प्रसारणाश्रयं च बलीय इति सम्प्रसारणबलीयस्त्वान्निवृत्तिः । वसोः सम्प्रसारणमिति सम्प्रसारणम् । समासे न ञ्स्वर्यः । चिकितानः । कित ज्ञान इत्यस्य छन्दसि लिट् । तस्य लिटः कानज्वेति कानजादेशः । द्विर्वचनम् । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः ॥ तिष्ठान्ताम् । ष्ठा गतिनिवृत्तौ । विपूर्वात्तिष्ठतेः । समवप्रविभ्यः स्थ इत्यात्मनेपदम् । निघातः । आयसः । अय गतौ । पचाद्यच् चित्स्वरः ॥ २ ॥