श्रवणम्

3.22.2
अग्ने॒ यत्ते᳚ दि॒वि वर्च᳚ः पृथि॒व्यां यदोष᳚धीष्व॒प्स्वा य᳚जत्र ।
येना॒न्तरि᳚क्षमु॒र्वा᳚त॒तन्थ᳚ त्वे॒षः स भा॒नुर᳚र्ण॒वो नृ॒चक्षा᳚ः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । यत् । ते॒ । दि॒वि । वर्चः᳚ । पृ॒थि॒व्याम् । यत् । ओष᳚धीषु । अ॒प्॑सु । आ । य॒ज॒त्र॒ ।
येन᳚ । अ॒न्तरि᳚क्षम् । उ॒रु । आ॒॑त॒तन्थ᳚ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒॑चक्षाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजत्र यजनीय हे अग्ने दिवि द्युलोके यद्वर्च आदित्याख्यं यज्ज्योतिस्तत्ते तवैव ज्योतिः । पृथिव्यामाहवनीयादिरूपतया वर्त्तमानं यत्तेजस्तत्त्वदीयमेव । प्रसिद्धिं तेजोऽभिधाय गूढं ज्योतिरभिधत्ते । यदोषधीष्वप्स्विति । ओषधीष्वरणिप्रभृतिषु काष्ठेषु यत्तेजः । यद्वा ओषधीषु वनस्पत्यादिषु सोमाख्यं यत्तेजोऽप्सु जलेषु यदौर्वाख्यं तेजस्तत्सर्वं आ सर्वत्र वर्तमानं तेजस्तावकमेव । किञ्च येन वायुरूपेण तेजसान्तरिक्शमाकाशमुर्वाततन्थ आतेनिथ विस्तीर्णं कृतवानसि । त्वेषो दीप्तिमान् अत एव भानुर्भासमानो नृचक्षा नृणां साक्षितया द्रष्टार्णवः समद्रवन्महान् । स तादृशस्त्वमन्तरिक्षमातेनिथेति पूर्वेणान्वयः । उक्तार्थे वाजसनेयकम् । अग्ने यत्ते दिवि वर्च इत्यादित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वप्स्वा यजत्रेति य एवऔषधीषुचाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः सत्वेषः स भानुरर्णवो नृचक्षा इति माहान्त्सभानुरर्णवो नृचक्षा इत्येतत् । शत. ब्रा. ७-१-२३ । इति ॥ पृथिव्याम् । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषधेश्च विभक्तावप्रथमायामिति दीर्घत्वम् । अप्सु । सावेकाच इति विभक्तेरुदात्तत्वम् । आततन्थ । तनु विस्तार इत्यस्य लिट थलि बभूथाततन्थ जगृम्भ ववर्थेति निपानादिडेत्वाभ्यासलोपा न भवन्ति लि तीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः अर्णवः । अर्णाम्स्यस्मिन्सन्तीति मतुबर्थे वप्रकरणेऽन्येभ्योपि दृश्यन्त इति वप्रत्ययः । अर्णसः सलोपश्चेति सलोपः । प्रत्ययस्वरः । सृचक्षाः चक्षिङ् व्यक्तायां वाचि । अभिव्यक्तवाग्वाच्ययं धातुरत्राभिव्यक्तिमात्रे वर्तते । चक्षेर्बहुलं शिच्चेत्यसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥ २ ॥