श्रवणम्

3.22.4
पु॒री॒ष्या᳚सो अ॒ग्नयः᳚ प्राव॒णेभि᳚ः स॒जोष᳚सः ।
जु॒षन्तां᳚ य॒ज्ञम॒द्रुहो᳚॑नमी॒वा इषो᳚ म॒हीः ॥
▶ पदपाठः (Word-by-word)
पु॒री॒ष्या᳚सः । अ॒ग्नयः᳚ । प्र॒व॒णेभिः᳚ । स॒॑जोष᳚सः ।
जु॒षन्ता᳚म् । य॒ज्ञम् । अ॒द्रुहः᳚ । अ॒न॒मी॒वाः । इषः᳚ । म॒हीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरीष्यासः सिकतासम्मिश्रा अग्नयश्चित्या अग्नयः प्रवणेभिर्मृत्खननसाधनभूतैरभ्र्यादिभिः सहिताः सजोषसः परस्पर सङ्गताः सन्तो यज्ञमस्माभिः क्रियमाणमग्निचयनपूर्वकमिमं सोमयागं जुषन्ताम् । सेवन्ताम् । किञ्च । अद्रुहोऽद्रोग्धारो यूयमनमीवा रोगादिवर्जिता महीर्महत्य इष ऊर्जो रोगादि रहितान्यन्नान्यस्मभ्यं प्रयच्छताम् । पुरीष्यासः । पॄ पालन पूरणयोः । ईषन्नित्यनुवृत्तौ शॄपॄभ्यां कित् । उ. ४-२७ । इतीषन्प्रत्ययः किच्च । कित्त्वाद्गुणे प्रतिषिद्ध उदोष्ठ्यपूर्वस्येत्युत्वम् । रपरः । पृणाति पूर्यते वेति पुरीषम् । पुरीषम् । पूरीषं पृणातेः पूरयतेर्वा । नि. २-२२ । इति यास्कः । तदर्हन्तीति पुरीश्याः । छन्दसि चेति यप्रत्य्६अयः । यचि भमिति भसंज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभिः । वन षण संभक्तावित्यस्मात्पुम्सि संज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभि । वनषण सम्भक्तावित्यस्मात्पुंसि संज्ञायां घः प्रायेणेति करणे घ प्रत्ययः । प्रकर्षेण वन्यते सम्भज्यते सम्श्लिष्यते मृदेभिरिति प्रावणानि खनित्राणि । प्रनिरन्तः । पा. ८-४-५ । इत्यादिनाणत्वं वनं समासे । पा. ६-२-१७८ । इत्यन्तोदात्तत्वं कृदुत्तरपदप्रकृतिस्वरः । यद्वा । प्रङ् गतौ । प्रवन्ते गच्छन्ति मृत्खननं प्रतीति चलनशब्दार्थदकर्मकाद्युच् । पा. ३-२-१४८ । इति युच् । चित्स्वरः । पुर्वस्मिन्पक्षेऽवग्रहाभावश्छान्दस इति वक्तव्यम् । जुषन्तां जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपम् । पादादित्वादनिघातः । महीः । महच्छब्दादुगितश्चेति ङीप् तकारलोपष्छान्दसः । प्रत्ययस्वरेणान्तोदात्तः ॥ ४ ॥