इन्द्र॒ सोमा᳚ः सु॒ता इ॒मे तव॒ प्र य᳚न्ति सत्पते ।
क्षयं᳚ च॒न्द्रास॒ इन्द᳚वः ॥
क्षयं᳚ च॒न्द्रास॒ इन्द᳚वः ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । सोमाः᳚ । सु॒ताः । इ॒मे । तव᳚ । प्र । य॒न्ति॒ । स॒त्॑प॒ते॒ ।
क्षय᳚म् । च॒न्द्रासः᳚ । इन्द᳚वः ॥
क्षय᳚म् । च॒न्द्रासः᳚ । इन्द᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
हे सस्पते इन्द्र चन्द्रास आह्लादयितार इन्दवो दीप्ताः सुता अभिशुता इमेऽस्माभिर्दत्ताः सोमाः क्षयम् । क्शयन्ति निवसन्त्यन्नादीन्यत्रेति क्षयो जठरम् । प्रयन्ति । प्रकर्षेण गच्छन्ति । तान् धारयेति भावः ॥ क्षयम् । क्शि निवासगत्योरित्यस्मादधिकरणे घप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तत्वे प्राप्ते क्शयो निवास इत्याद्युदात्तत्वम् । चन्द्रासः । चदि आह्लादने दीप्त्तौ च । अस्मात्स्फायितञ्चीत्यादिना रक्प्रत्ययः । आज्जसेरसुगित्यसुक् । प्रत्ययस्वरः । इन्दवः । उन्देरिच्चादेरित्युप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः ॥ ४ ॥