अ॒र्वा॒वतो᳚ न॒ आ ग᳚हि परा॒वत᳚श्च वृत्रहन् ।
इ॒मा जु᳚षस्व नो॒ गिरः᳚ ॥
इ॒मा जु᳚षस्व नो॒ गिरः᳚ ॥
पदपाठः (Word-by-word)
अ॒र्वा॒॑वतः᳚ । नः॒ । आ । ग॒हि॒ । प॒रा॒॑वतः᳚ । च॒ । वृ॒त्र॒॑ह॒न् ।
इ॒माः । जु॒ष॒स्व॒ । नः॒ । गिरः᳚ ॥
इ॒माः । जु॒ष॒स्व॒ । नः॒ । गिरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वृत्रहन्निन्द्र अर्वावतोऽर्वाचीनात्समीपाद्धेशात्परावतोऽतिदूराद्देशाद्वा नोऽस्मानभिलक्ष्या गहि । आगच्छ । आगत्य च नोऽस्मदीया इमाः स्तुतिलक्शणा गिरो वाचो जुषस्व । सेवस्य । पारवतः । उपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः ॥ ८ ॥