इन्द्र॒ प्र णो᳚ धि॒तावा᳚नं य॒ज्ञं विश्वे᳚भिर्दे॒वेभि᳚ः ।
ति॒र स्त᳚वान विश्पते ॥
ति॒र स्त᳚वान विश्पते ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । प्र । नः॒ । धि॒त॑वा᳚नम् । य॒ज्ञम् । विश्वे᳚भिः । दे॒वेभिः᳚ ।
ति॒रः । स्त॒वा॒न॒ । वि॒श्प॒ते॒ ॥
ति॒रः । स्त॒वा॒न॒ । वि॒श्प॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे स्तवान स्तोतृभिः सूयमान विश्वते विशां मरुतां पते हे इन्द्र विश्वेभिर्देवेभिः सर्वैर्यजनीयैर्देवैः सहितस्त्वं धितावानम् । वन्यते सम्भज्यत इति वानं हविः । धितं निहितं हविर्यस्य तम् । संभृतहविश्कमित्यर्थः । अस्मदीयमिमं यज्ञं प्रतिरः । प्रकर्षेण वर्धय । हविः स्वीकरणेन सम्पूर्णं कुर्विति भावः ॥ णः । उपसर्गाद्बहुलमिति संहितायां णत्वम् । धितावानम् । डुधाञ् धारनपोशणयोरित्यस्मान्निष्ठा । बहुव्रीहौ पूर्वपदस्वरः । तिरः । तरतेर्व्यत्ययेन शः । प्रत्ययस्वरः । स्तवान । ष्टुञ् स्तुतौ । सम्यानच् स्तुव इत्युपपदाभावेऽपि कर्मण्यानच् प्रत्ययः । आमन्त्रितत्वान्निघातः ॥ ३ ॥