ज॒ज्ञा॒नो हरि᳚तो॒ वृषा॒ विश्व॒मा भा᳚ति रोच॒नम् ।
हर्य᳚श्वो॒ हरि᳚तं धत्त॒ आयु᳚ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ॥
हर्य᳚श्वो॒ हरि᳚तं धत्त॒ आयु᳚ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ॥
पदपाठः (Word-by-word)
ज॒ज्ञा॒नः । हरि᳚तः । वृषा᳚ । विश्व᳚म् । आ । भा॒ति॒ । रो॒च॒नम् ।
हरि᳚॑अश्वः । हरि᳚तम् । ध॒त्ते॒ । आयु᳚धम् । आ । वज्र᳚म् । बा॒ह्वोः । हरि᳚म् ॥
हरि᳚॑अश्वः । हरि᳚तम् । ध॒त्ते॒ । आयु᳚धम् । आ । वज्र᳚म् । बा॒ह्वोः । हरि᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
वृषा कामानां वर्षको हरितो हरिद्वर्णोपेतो जज्ञानो जात इन्द्रो विश्वं सर्वं रोचनं दीप्यमानं लोकमा भाति । सर्वतः प्रकाशयति । तत्या हर्यश्व इन्द्रो हरितं हरिद्वर्णोपेतमायुधं धत्ते । बाह्वोर्धत्ते । तथा हरिं शत्रूणां प्रणहारकं वज्रं बाह्वोराधत्ते ॥ जज्ञानः । जनी प्रादुर्भाव इत्यस्य लिटः कानच् । गमहनेत्यादिनोपधालोपः । चित्त्वादन्तोदात्तः । भाति । भा दीप्तावित्यस्यान्तर्भावितण्यर्थस्य लटि रूपम् । रोचनम् । रुच दीप्तावित्यस्मादनुदात्तेतश्च हलादेरिति युच् । चित्त्वादन्तोदात्तः । बाह्वोः । उदात्तयणोहल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ४ ॥