श्रवणम्

3.1.17 समानपद
आ दे॒वाना᳚मभवः के॒तुर᳚ग्ने म॒न्द्रो विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् ।
प्रति॒ मर्ता{4}᳚ अवासयो॒ दमू᳚ना॒ अनु᳚ दे॒वान्र᳚थि॒रो या᳚सि॒ साध᳚न् ॥
▶ पदपाठः (Word-by-word)
आ । दे॒वाना᳚म् । अ॒भ॒वः॒ । के॒तुः । अ॒ग्ने॒ । म॒न्द्रः । विश्वा᳚नि । काव्या᳚नि । वि॒द्वान् ।
प्रति᳚ । मर्ता᳚न् । अ॒वा॒स॒यः॒ । दमू᳚नाः । अनु᳚ । दे॒वान् । र॒थि॒रः । या॒सि॒ । साध᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने मन्द्रः स्तुत्यः केतुर्यज्ञेषुदेवानां प्रज्ञापकस्त्वं आभवः आसमन्ताद्भवसि सर्वव्यापको- भवसीत्यर्थः किंच विश्वानि सर्वाणिकाव्यानिय्जमानादिभिःकृतानि स्तोत्राणिविद्वान् जानन् दमूनादान्तमनाः त्वंमर्तान् मर्त्यान् स्तोतॄन् स्वाभिलषितवस्तुसंपादनेनप्रीतान् विधाय गृहेषु प्रत्यवासयः प्रतिवासयसि रथिरः रथी त्वं साधन् देवानांहितानिकर्माणिसाधयन् देवान् अनु यासिच अनुगच्चसिच ॥ १७ ॥