श्रवणम्

3.1.5
शु॒क्रेभि॒रङ्गै॒ रज᳚ आतत॒न्वान्क्रतुं᳚ पुना॒नः क॒विभि᳚ः प॒वित्रै᳚ः ।
शो॒चिर्वसा᳚न॒ः पर्यायु᳚र॒पां श्रियो᳚ मिमीते बृह॒तीरनू᳚नाः ॥
▶ पदपाठः (Word-by-word)
शु॒क्रेभिः᳚ । अङ्गैः᳚ । रजः᳚ । आ॒॑त॒त॒न्वान् । क्रतु᳚म् । पु॒ना॒नः । क॒वि॑भिः᳚ । प॒वित्रैः᳚ ।
शो॒चिः । वसा᳚नः । परि᳚ । आयुः᳚ । अ॒पाम् । श्रियः᳚ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निः शुक्रेभिः शुक्रैरङ्गैस्तेजोभिरजोन्तरिक्षमाततन्वान् आततन्वन् व्याप्नुवन् क्रतुं कर्मणां कर्तारं यजमानं कविभिः क्रान्तप्रज्ञैः स्तोतव्यैर्वापवित्रैः शोधकैस्तेजोभिः पुनानः शोधयन् शोचि र्दीप्तिंवस्त्रस्थानीयंपरिपरितोवसानः आच्छादयन् अपांअपस्यातां कर्मवतां आयुरन्नं बृहतीः प्रभू ताः अनूनाः संपूर्णाः श्रियः संपदश्च मिमीतेकरोति ॥ ५ ॥