श्रवणम्

3.1.16 समानपद
उ॒प॒क्षे॒तार॒स्तव᳚ सुप्रणी॒ते॑ग्ने॒ विश्वा᳚नि॒ धन्या॒ दधा᳚नाः ।
सु॒रेत᳚सा॒ श्रव᳚सा॒ तुञ्ज᳚माना अ॒भि ष्या᳚म पृतना॒यू{4}रदे᳚वान् ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑क्षे॒तारः᳚ । तव᳚ । सु॒॑प्र॒नी॒ते॒ । अ॒ग्ने॒ । विश्वा᳚नि । धन्या᳚ । दधा᳚नाः ।
सु॒॑रेत᳚सा । श्रव᳚सा । तुञ्ज᳚मानाः । अ॒भि । स्या॒म॒ । पृ॒त॒ना॒॑यून् । अदे᳚वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुप्रणीते शोभनप्रणयन हेअग्ने तवउपक्षेतारः उपगन्तारः अत्रक्षितिर्गत्यर्थेवर्तते विश्वानि सर्वाणिधन्याधन्यानिपश्वादिधनप्राप्तिहेतुभूतानिकर्माणि दधानाः विदधानाः कुर्वन्तः तुञ्चमानाः हवींषिप्रयच्छन्तोवयं सुरेतसाशोभनवीर्येण श्रवसात्वत्कृतेनान्नेनअदेवान् देवेभ्योन्यान् नञिवयु क्तन्यायेन राक्षसाएवगृह्यन्ते यज्ञविघ्नकारिणस्तान् पृतनायूंश्चशरीराद्युपद्रवकारिणः शत्रूंश्चअभि ष्यामअभिभवेम यद्वा देवान् अपूजयतः शत्रूनितिवायोज्यम् ॥ १६ ॥