व॒व्राजा᳚ सी॒मन᳚दती॒रद᳚ब्धा दि॒वो य॒ह्वीरव᳚साना॒ अन᳚ग्नाः ।
सना॒ अत्र᳚ युव॒तय॒ः सयो᳚नी॒रेकं॒ गर्भं᳚ दधिरे स॒प्त वाणी᳚ः ॥
सना॒ अत्र᳚ युव॒तय॒ः सयो᳚नी॒रेकं॒ गर्भं᳚ दधिरे स॒प्त वाणी᳚ः ॥
पदपाठः (Word-by-word)
व॒व्राज᳚ । सी॒म् । अन᳚दतीः । अद᳚ब्धाः । दि॒वः । य॒ह्वीः । अव᳚सानाः । अन᳚ग्नाः ।
सनाः᳚ । अत्र᳚ । यु॒व॒तयः᳚ । स॑यो᳚नीः । एक᳚म् । गर्भ᳚म् । द॒धि॒रे॒ । स॒प्त । वाणीः᳚ ॥
सनाः᳚ । अत्र᳚ । यु॒व॒तयः᳚ । स॑यो᳚नीः । एक᳚म् । गर्भ᳚म् । द॒धि॒रे॒ । स॒प्त । वाणीः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अनदतीः अभक्षयन्तीः अदब्धाः अहिंसिताः मातृभूताः अपोग्निः सींसर्वतोवव्राज व्रजति अग्निरपांशोषकः तंचापः शमयन्तितदुभयमिहनास्तीत्युक्तंभवति कीदृश्यस्ताः दियोयह्वीः अन्तरिक्षस्यापत्यभूताः अवसानाः वस्त्रमनाच्छादयन्त्यः वस्त्रस्थानीयस्यजलस्य विद्यमानत्वात् अतएवनग्नाः किञ्च ताअपिसनाः सनातन्यः युवतयः नित्यतरुण्यः नित्यव्रुद्धाइत्यर्थः सयोनीः समानमन्तरिक्षंयोनिस्थानंयासांताः सप्तवाणीः नद्यः एकं अग्निंगर्भंगर्भस्थं दधिरेदधते ॥ ६ ॥