श्रवणम्

3.1.8
ब॒भ्रा॒णः सू᳚नो सहसो॒ व्य᳚द्यौ॒द्दधा᳚नः शु॒क्रा र᳚भ॒सा वपूं᳚षि ।
श्चोत᳚न्ति॒ धारा॒ मधु᳚नो घृ॒तस्य॒ वृषा॒ यत्र᳚ वावृ॒धे काव्ये᳚न ॥
▶ पदपाठः (Word-by-word)
ब॒भ्रा॒णः । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । वि । अ॒द्यौ॒त् । दधा᳚नः । शु॒क्रा । र॒भ॒सा । वपूं᳚षि ।
श्चोत᳚न्ति । धाराः᳚ । मधु᳚नः । घृ॒तस्य᳚ । वृषा᳚ । यत्र᳚ । व॒वृ॒धे । काव्ये᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसहसःसूनो सहसस्पूत्रअग्ने बभ्राणः सर्वैर्धार्यमाणःत्वं शुक्राशुक्राणिभास्वराणिरभसा वेग वन्ति वपूंषि अर्चींषिदधानः धारयंस्त्वं व्यद्यौत् विद्योतसे वृषाग्निः यत्रयस्मिन्यजमानेकाव्ये नस्तोत्रेणववृधेवृद्धिंप्राप्नोतितदानींमधुनः अत्यन्तं मधुरस्यघृत्स्यौदकस्यधाराः श्चोतन्ति स्रवन्ते यदायजमानस्तोत्रेणअग्निस्तुष्टोभवति तदानींवृष्टिर्भ्वतीत्यर्थः ॥ ८ ॥