श्रवणम्

3.1.23
इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श᳚श्वत्त॒मं हव᳚मानाय साध ।
स्यान्न᳚ः सू॒नुस्तन᳚यो वि॒जावाग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ॥
▶ पदपाठः (Word-by-word)
इळा᳚म् । अ॒ग्ने॒ । पु॒रु॒॑दंस᳚म् । स॒निम् । गोः । श॒श्व॒त्॑त॒मम् । हव᳚मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन᳚यः । वि॒जा॑वा᳚ । अ॒ग्ने॒ । सा । ते॒ । सु॒॑म॒तिः । भू॒तु॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंसर्वेषांपशूनांपशुपुरोडाशस्यस्विष्टकृतः पुरोनुवाक्या सूत्र्यतेहि—इळामग्नेपुरुदंसंसनिंगो र्होतायक्षदग्निंपुरोळाशस्यस्वदस्वहव्यासमिषोदिदीहीतिपुरोळाशस्विष्टकृतइति । हेअग्नेपुरुदंसंबहु कर्माणं गोः गवांसनिंप्रदात्रीं इळांभूमिंहवमानायस्तुवते मह्यंशश्वत्तमं चिरकालं यथा भवतित था साध साधय नोस्माकंसूनुःपुत्रः तनयः सन्तानस्यविस्तारयिता विजावापुत्रपौत्रादिरूपेणस्व यंविजायतइतिविजावास्यात् हेअग्ने साप्रसिद्धातेसुमतिः त्वदीयाअनुग्रहबुद्धिः अस्मेअस्मासु भूतु भवतु ॥ २३ ॥

वैश्वानरायेतिपञ्चदशर्चंद्वितीयंसूक्तं तथाचानुक्रान्तं—वैश्वानरायपञ्चोनावैश्वानरीयंतुजागतं त्विति विश्वामित्रऋषिः जगतीछन्दः वैश्वानरोग्निर्देवता पृष्ठ्याभिप्लविकयोस्तृतीयेहन्याग्निमा रुतेवैश्वानरायधिषणामितिवैशानरनिविद्धानीयंसूक्तं तृतीयस्येतिखण्डेसूत्रितम्—वैश्वानरायधिष णांधारावरामरुतइति ।