अ॒क्रो न ब॒भ्रिः स᳚मि॒थे म॒हीनां᳚ दिदृ॒क्षेयः᳚ सू॒नवे॒ भाऋ᳚जीकः ।
उदु॒स्रिया॒ जनि᳚ता॒ यो ज॒जाना॒पां गर्भो॒ नृत᳚मो य॒ह्वो अ॒ग्निः ॥
उदु॒स्रिया॒ जनि᳚ता॒ यो ज॒जाना॒पां गर्भो॒ नृत᳚मो य॒ह्वो अ॒ग्निः ॥
पदपाठः (Word-by-word)
अ॒क्रः । न । ब॒भ्रिः । स॒म्॑इ॒थे । म॒हीना᳚म् । दि॒दृ॒क्षेयः᳚ । सू॒नवे᳚ । भाः॑ऋ᳚जीकः ।
उत् । उ॒स्रियाः᳚ । जनि᳚ता । यः । ज॒जान᳚ । अ॒पाम् । गर्भः᳚ । नृ॑त᳚मः । य॒ह्वः । अ॒ग्निः ॥
उत् । उ॒स्रियाः᳚ । जनि᳚ता । यः । ज॒जान᳚ । अ॒पाम् । गर्भः᳚ । नृ॑त᳚मः । य॒ह्वः । अ॒ग्निः ॥
सायणभाष्यम् (Sayana Commentary)
जनिता सर्वस्यलोकस्यजनयिता अपांउदकानांगर्भः गर्भरूपः नृतमः नेतृतमः अतिशयेन मनुष्याणांरक्षिता यह्वः महान् योग्निः अक्रः परेषामाक्रमितापरैरनाक्रमणीयोवा नेतिपाद पूरणः समिथेसङ्ग्रामे महीनांमहतीनांस्वसेनानां बभ्रिःभर्ता दिदृक्षेयः सर्वैर्दर्शनीयः भाऋजीकः स्वदीप्त्याप्रकाशमानः सोग्निः सूनवेहविषांप्रदात्रे यजमानाय तदर्थं उस्रियाः अपः उज्जजानौद जनयत् सूनवे षूप्रेरणे इत्यस्माद्धातोरौणादिकोनुप्रत्ययः ॥ १२ ॥