श्रवणम्

3.1.21
जन्म᳚ञ्जन्म॒न्निहि᳚तो जा॒तवे᳚दा वि॒श्वामि᳚त्रेभिरिध्यते॒ अज᳚स्रः ।
तस्य᳚ व॒यं सु᳚म॒तौ य॒ज्ञिय॒स्यापि᳚ भ॒द्रे सौ᳚मन॒से स्या᳚म ॥
▶ पदपाठः (Word-by-word)
जन्म᳚न्॑जन्मन् । नि॑हि᳚तः । जा॒त॑वे᳚दाः । वि॒श्वामि᳚त्रेभिः । इ॒ध्य॒ते॒ । अज᳚स्रः ।
तस्य᳚ । व॒यम् । सु॒॑म॒तौ । य॒ज्ञिय᳚स्य । अपि᳚ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जन्मन् जन्मन् सर्वेषुमनुष्येषुनिहितोजातवेदाः विश्वामित्रेभिः विश्वामित्रैः पूजायांबहुवचनं महर्षिणा विश्वामित्रेण योजातवेदाः अजस्रः अजस्रं अनवरतं इध्यते दीप्यते सुमतौ कल्याण्यां मतौ वर्तमानावयं तस्ययज्ञियस्ययज्ञार्हस्याग्नेर्भद्रे भजनीये सौमनसे सुमनोभावे अनुग्रहबुद्धौ अपिस्याम अपिभवेम प्रार्थनायांलिङ् ॥ २१ ॥