दशमं मण्डलम् - सूक्तम् 13

5 ऋचः

ऋषिः: विवस्वानादित्यः देवता: हविर्धाने छन्दः: त्रिष्टुप्

सूक्तम् 10.13 - सम्पूर्णम्

1 / 5
ऋक्: 10.13.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.13.1
यु॒जे वां॒ ब्रह्म᳚ पू॒र्व्यं नमो᳚भि॒र्वि श्लोक᳚ एतु प॒थ्ये᳚व सू॒रेः ।
शृ॒ण्वन्तु॒ विश्वे᳚ अ॒मृत᳚स्य पु॒त्रा आ ये धामा᳚नि दि॒व्यानि᳚ त॒स्थुः ॥
▶ पदपाठः (Word-by-word)
यु॒जे । वा॒म् । ब्रह्म᳚ । पू॒र्व्यम् । नमः᳚॑भिः । वि । श्लोकः᳚ । ए॒तु॒ । प॒थ्या᳚॑इव । सू॒रेः ।
शृ॒ण्वन्तु᳚ । विश्वे᳚ । अ॒मृत᳚स्य । पु॒त्राः । आ । ये । धामा᳚नि । दि॒व्यानि᳚ । त॒स्थुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेहविर्धान शकटे वां युवां अहं पूर्व्यं पूर्वस्मिन्काले भवं अनादिकालप्रवृत्तमित्यर्थः एवंभूतं ब्रह्म मंत्रमुच्चार्येतिशेषः नमोभिः सोमादिहविर्लक्षणैरन्नैर्युजे युनज्मि युवयोरुपरि- सोमादिकमारोप्य पत्नीशालांते हविर्धानंप्रति युवांनयामीत्यर्थः । एवंभूतयोर्युवयोः श्लोकः शब्दः व्येतु विश्वान् देवान् प्रति विविधं गच्छतु । तत्र दृष्टान्तः—पथ्येव सूरेः यथा स्तोतुः स्वभूता पथ्या परिणामसुखावहाहुतिः विश्वान् देवान् प्रति विविधं गच्छति तद्वत् अमृतस्यामरणधर्मणः प्रजापतेः पुत्राविश्वेदेवाः एवंभूतं शब्दं श्रृण्वन्तु । ये देवाः दिव्यानि दिविभवानि धामानि स्थानानि आतस्थुः अधिष्ठितवन्तः ते श्रृण्वन्त्वित्यर्थः ॥ १ ॥ अत्रैव हविर्धानप्रवर्तने यमेइवेत्येषा । सूत्रितंच—यमेइवयतमानेयदैतमधिद्वयोरदधाउ- क्थ्यंवचइत्यर्धर्चंआरमेदिति ।

10.13.2
य॒मे इ᳚व॒ यत᳚माने॒ यदैतं॒ प्र वां᳚ भर॒न्मानु᳚षा देव॒यन्त᳚ः ।
आ सी᳚दतं॒ स्वमु᳚ लो॒कं विदा᳚ने स्वास॒स्थे भ᳚वत॒मिन्द᳚वे नः ॥
▶ पदपाठः (Word-by-word)
य॒मे इ॒वेति᳚ य॒मे॑इ᳚व । यत᳚माने॒ इति᳚ । यत् । ऐत᳚म् । प्र । वा॒म् । भ॒र॒न् । मानु᳚षाः । दे॒व॒॑यन्तः᳚ ।
आ । सी॒द॒त॒म् । स्वम् । ऊं॒ इति᳚ । लो॒कम् । विदा᳚ने॒ इति᳚ । स्वा॒स॒स्थे इति᳚ सु॒॑आ॒स॒स्थे । भ॒व॒त॒म् । इन्द᳚वे । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमे इव यथा सहोत्पन्ने अपत्ये संचरतः तथा यतमाने गमनहविर्धारणादिस्वाधि- कारकर्मणि प्रवर्तमाने हविर्धानशकटे युवां यद्यदा एतं हविर्धानस्थानं प्रतिगच्छतः । तथा देवयन्तोदेवकामाः मानुषायजमानाः वां युवां प्रभरन् प्रभरन्ति । किंच युवां स्वमु लोकं आत्मीयमेव हविर्धानाख्यं स्थानं विदाने जानती आसीदतं ततः नोस्माकं इन्दवे सोमार्थं स्वासस्थे शोभननिवासास्थाने भवतं ॥ २ ॥

10.13.3 समानपद
पञ्च᳚ प॒दानि᳚ रु॒पो अन्व᳚रोहं॒ चतु᳚ष्पदी॒मन्वे᳚मि व्र॒तेन᳚ ।
अ॒क्षरे᳚ण॒ प्रति᳚ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु᳚नामि ॥
▶ पदपाठः (Word-by-word)
पञ्च᳚ । प॒दानि᳚ । रु॒पः । अनु᳚ । अ॒रो॒ह॒म् । चतुः᳚॑पदीम् । अनु᳚ । ए॒मि॒ । व्र॒तेन᳚ ।
अ॒क्षरे᳚ण । प्रति᳚ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य᳚ । नाभौ᳚ । अधि᳚ । सम् । पु॒ना॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुपः यष्टृणां स्वर्गमारोपयितुर्यज्ञस्यांगत्वेन संबन्धीनि पंचसंख्याकानि धानासोमपशु- पुरोडाशाज्याख्यानि पदानि वृत्तिहेतुत्वेन देवान् प्रति गन्तॄणि हवींषि अन्वरोहं अनुरो- हामिशकटे युवयोः स्थापनवहनानन्तरं करणे करोमीत्यर्थः । किंच चतुष्पदीं चतुर्भिः पदै- र्युक्तां त्रिष्टुबादिछन्दसं क्रियां व्रतेन प्रयोगकर्मणा अन्वेमि अनुगच्छामि यथाकालं प्रयुन- ज्मीत्यर्थः । अक्षरेण प्रणवाख्येन एतामुपस्थितां प्रतिगरक्रियां प्रतिमिमे निर्ममे । अपिच ऋतस्य यज्ञस्य अधीति सप्तम्यर्थानुवादी नाभौ नाभिभूते वेद्याख्ये स्थाने संपुनामि सं- शोधयामि दशापवित्रेण सोमं संस्करोमीत्यर्थः ॥ ३ ॥

10.13.4 समानपद
दे॒वेभ्य॒ः कम᳚वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ᳚णीत ।
बृह॒स्पतिं᳚ य॒ज्ञम᳚कृण्वत॒ ऋषिं᳚ प्रि॒यां य॒मस्त॒न्वं१॒᳚ प्रारि᳚रेचीत् ॥
▶ पदपाठः (Word-by-word)
दे॒वेभ्यः᳚ । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒॑जायै᳚ । कम् । अ॒मृत᳚म् । न । अ॒वृ॒णी॒त॒ ।
बृह॒स्पति᳚म् । य॒ज्ञम् । अ॒कृ॒ण्व॒त॒ । ऋषि᳚म् । प्रि॒याम् । य॒मः । त॒न्व᳚म् । प्र । अ॒रि॒रे॒ची॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवेभ्योदेवानां मृत्युं मारयितारं कं स्वपुरुषं आवृणीत प्रार्थयते प्रयुक्ते । किंच प्रजायै देवव्यतिरिक्तायामनुष्यादिकायाः प्रजायाः अमृतममारकं अविनाशकं वा स्वपुरुषं नावृ- णीत नप्रयुंक्ते हविर्धारणीक्रियायां प्रवृत्तायां सत्यां पूर्वोक्तानां सर्वेषां स्थितेरवश्यंभावि- त्वात् न कंचिदपि विनाशकं स्वपुरुषं यमोनिरूपयतीत्यर्थः । अपिच बृहस्पतिं बृहतां देवानां हविर्धारणे पालकं बृहतां मंत्राणां स्वामिनं वा ऋषिं सर्वस्य दृष्टादृष्टफलस्य द्रष्टारं यज्ञं अकृण्वत ऋत्विग्यजमानाः कुर्वन्ति । अपिच यमः प्रियां तन्वं अस्मदीयमिष्टं शरीरं प्रारिरेचीन् धातूनामनेकार्थत्वात् रिचिरत्र परिहारार्थे वर्तते प्ररेचयति मृत्योः सका शात्परिहरति कर्मवैगुण्यजनितदोषाभावादस्माकं जीवितं नापहरतीत्यर्थः ॥ ४ ॥

10.13.5 समानपद
स॒प्त क्ष᳚रन्ति॒ शिश᳚वे म॒रुत्व᳚ते पि॒त्रे पु॒त्रासो॒ अप्य᳚वीवतन्नृ॒तम् ।
उ॒भे इद᳚स्यो॒भय᳚स्य राजत उ॒भे य᳚तेते उ॒भय᳚स्य पुष्यतः ॥
▶ पदपाठः (Word-by-word)
स॒प्त । क्ष॒र॒न्ति॒ । शिश᳚वे । म॒रुत्व᳚ते । पि॒त्रे । पु॒त्रासः᳚ । अपि᳚ । अ॒वी॒व॒त॒न् । ऋ॒तम् ।
उ॒भे इति᳚ । इत् । अ॒स्य॒ । उ॒भय᳚स्य । रा॒ज॒तः॒ । उ॒भे इति᳚ । य॒ते॒ते॒ इति᳚ । उ॒भय᳚स्य । पु॒ष्य॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्वते मरुतः स्तोतारः स्तुतिद्वारेण तद्वते पित्रे ऋत्विजां पितृभूताय शिशवे शंस- नीयाय हविर्धानशकटयोः सुखासीनभूताय सोमाय सप्तच्छन्दांसि क्षरंति स्तुतित्वेन गच्छ न्ति । अपिच पुत्रासोपि सोमस्य पुत्रभूताः ऋत्विजोपि ऋतं सत्यभूतं स्तोत्रं अप्यवीवतन् संगमयन्ति सद्गुणग्राहिणीं स्तुतिं कुर्वन्तीत्यर्थः । उभेइत् द्वेएव हविर्धानशकटे अस्योभ- यस्य देवजातस्य मनुष्यजातस्य च राजतः ईशाने उभे एव शकटे यतेते कर्मानुष्ठाने प्रय त्नं कुरुतः उभयस्य देवजातस्य मनुष्यजातस्यच पुष्यतः हविर्धारणद्वारेण पुष्टिं कुरुतइत्यर्थः ॥ ५ ॥

परेयिवांसमितिषोडशर्चं चतुर्दशं सूक्तं विवस्वतः पुत्रस्य यमस्यार्षं अंगिरसोनः पित- रोनवग्वाइति षष्ठ्याअंगिरः पित्रथर्वभृगुलक्षणालिंगोक्तदेवताः प्रेहीत्याद्यास्तिस्रोलिंगोक्तदेव ताकाः पितृदेवताकावा अतिद्रवसारमेयावित्यादिकस्तृचः सरमापुत्रौ यौ श्वानौ परलोक मार्गमभितः स्थितौ तद्देवताकः शिष्टायमदेवत्याः यमायसोममिति त्रयोदश्यद्याअनुष्टुभः यमायमधुम्त्तममित्येषा बृहती आदितोद्वादशत्रिष्टुभः । तथाचानुक्रान्तं—परेयिवांसंषोडश यमोयामं षष्ठी लिंगोक्तदेवता पराश्चतिस्रः पित्र्यावा तृचःश्वभ्यां पराअनुष्टुभोबृहत्युपान्त्ये ति । गतः सूक्तविनियोगः । महापितृयज्ञे यमयगाख्यायाज्या । सूत्रितंच—इमंयमप्रस्तरमा हिसीदेतिद्वेपरेयिवांसंप्रवतोमहीरन्विति ।