दशमं मण्डलम् - सूक्तम् 142

8 ऋचः

ऋषिः: जरिता देवता: अग्निः छन्दः: जगती

सूक्तम् 10.142 - सम्पूर्णम्

1 / 8
ऋक्: 10.142.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.142.1 समानपद
अ॒यम᳚ग्ने जरि॒ता त्वे अ᳚भू॒दपि॒ सह᳚सः सूनो न॒ह्य१॒᳚न्यदस्त्याप्य᳚म् ।
भ॒द्रं हि शर्म᳚ त्रि॒वरू᳚थ॒मस्ति᳚ त आ॒रे हिंसा᳚ना॒मप᳚ दि॒द्युमा कृ᳚धि ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति᳚ । अ॒भू॒त् । अपि᳚ । सह᳚सः । सू॒नो॒ इति᳚ । न॒हि । अ॒न्यत् । अस्ति᳚ । आप्य᳚म् ।
भ॒द्रम् । हि । शर्म᳚ । त्रि॒॑वरू᳚थम् । अस्ति᳚ । ते॒ । आ॒रे । हिंसा᳚नाम् । अप᳚ । दि॒द्युम् । आ । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्न इत्यष्टर्चं चतुर्दशं सूक्तमाग्नेयम्। शार्ङ्ग इति पक्शिविशेशस्याख्या। शार्ङ्गजातयो जरितृप्रभृतयश्चत्वारश्चतुर्णां द्वृचानां क्रमेण द्रष्टारः। अदितो द्वे जगत्यौ। अथ चतस्रस्त्रिष्टुभः। ततो द्वे अनुष्टुभौ। तथा चानुक्रान्तम्। अयमष्टौ द्वृचाः शार्ङ्गा जरिता द्रोणः सारिसृक्वः स्तम्बमित्रश्चाग्नेयमाद्ये जगत्यौ चतस्रश्च त्रिष्टुभ इति। गतो विनियोगः॥

हे अग्ने त्वे त्वयि। सुपां सुलुगिति सप्तम्याः शे आदेशः। अयमृषिर्जरिता स्तोताभूदपि। अपिशब्दः सम्भावनायाम् । इदानीं स्तोतृत्वेन सम्भाव्यते। तत्र कारनमाह। हे सहसः सूनो बलस्य पुत्र त्वत्तोऽन्यदाप्यमाप्तव्यं न ह्यस्ति। न खलु विद्यते। अतः प्राप्तव्यं त्वामेव स्तुत्या प्राप्नोमि। भद्रं कल्याणं त्रिवरूथं दुःखत्रयस्य निवारकम् शर्म सुखं हि यस्मात्ते तवास्ति विद्यते। अथवा शोभनं त्रिवरूथं त्रिभूमिकं गृहम् तवास्ति हि। अतो हिंसानां हिंस्यमानानाममस्माकमारे दूरे दिद्युं दीप्यमानामात्मीयां ज्वालामपा कृधि। अपाकुरु। निवारय। करोतेश्चान्दसो विकरनस्य लुक्। श्रुशृणुषॄकृव्रुभ्य इति हेर्धिभावः॥१॥

10.142.2 समानपद
प्र॒वत्ते᳚ अग्ने॒ जनि᳚मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव᳚ना॒ न्यृ᳚ञ्जसे ।
प्र सप्त᳚य॒ः प्र स᳚निषन्त नो॒ धियः᳚ पु॒रश्च᳚रन्ति पशु॒पा इ᳚व॒ त्मना᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॒॑वत् । ते॒ । अ॒ग्ने॒ । जनि᳚म । पि॒तु॒॑य॒तः । सा॒ची॑इ᳚व । विश्वा᳚ । भुव᳚ना । नि । ऋ॒ञ्ज॒से॒ ।
प्र । सप्त᳚यः । प्र । स॒नि॒ष॒न्त॒ । नः॒ । धियः᳚ । पु॒रः । च॒र॒न्ति॒ । प॒शु॒पाः॑इ᳚व । त्मना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पितूयतः पितुमन्नं भक्ष्यमिच्छतस्ते तव जनिम जन्म प्रामर्भावं प्रवत्प्रकृष्टमुत्क्रुष्टं भवति। उपसर्गाच्छन्दसि धात्वर्थ इति वतिः। स त्वं साचीव सचिव इव विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि न्यृञ्जसे। ष्रसाधयसि। वशीकरोषीत्यर्थः। सप्तयः सर्पणशीला नोऽस्माकं धियह् स्तुतयस्तादृशं त्वां प्र सनिषन्त। प्रकर्षेण सम्भजन्ते। एकः प्रशब्दः पूरकः। यद्वा। सप्तयः। लुप्तोपममेतत्। सर्पणशीला अश्वा यथाजं प्रकर्षेण सम्भजन्ते तथास्मदीया धिय इत्यर्थः। अनन्तरं पुरस्तव पुरस्तात् त्मनात्मना स्वयमेव चरन्ति। व्याप्य वर्तन्ते। पशुपा इव। यथा पशूनां पालका गोपालाः पालयितव्यानां पुरस्तात्सञ्चरन्ति तद्वत्॥२॥

10.142.3
उ॒त वा उ॒ परि᳚ वृणक्षि॒ बप्स᳚द्ब॒होर᳚ग्न॒ उल᳚पस्य स्वधावः ।
उ॒त खि॒ल्या उ॒र्वरा᳚णां भवन्ति॒ मा ते᳚ हे॒तिं तवि᳚षीं चुक्रुधाम ॥
▶ पदपाठः (Word-by-word)
उ॒त । वा॒ । ऊं॒ इति᳚ । परि᳚ । वृ॒ण॒क्षि॒ । बप्स᳚त् । ब॒होः । अ॒ग्ने॒ । उल᳚पस्य । स्व॒धा॒॑वः॒ ।
उ॒त । खि॒ल्याः । उ॒र्वरा᳚णाम् । भ॒व॒न्ति॒ । मा । ते॒ । हे॒तिम् । तवि᳚षीम् । चु॒क्रु॒धा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वधावो दीप्तिमन्नग्ने बप्सद्दहन्। भस भर्त्सनदिप्त्योः। चौहोत्यादिकः। शतरि घसिभसोर्हलि च। पा. ६-४-१००। इत्युपधालोपः। नाभ्यस्ताच्छतुरिति नुमः प्रतिषेधः। बहोर्बहुलस्योलपस्य तृणजातस्य। कर्मणि षष्ठी। सर्वं वनमुत वा अपि खलु परि वृणक्षि। परिवर्जयसि। विनाशयसि। उ इति पूरकः। उतापि चोर्वराणाम्। सस्याढ्या भूमय उर्वराः। तासां सम्बन्धिनः प्रदेशाः खिल्याः खिलाः प्राणिभिर्गन्तुं योग्या भवन्ति। त्वया दग्धा इति शेशः। तविषीं महतीं ते तव हेतिं हननहेतुभूतां ज्वालं मा चुक्रुधाम। मा क्रोधयाम। अपि तु स्तुतिभिः प्रसाधयाम। ऊतियूतीत्यादिना हन्तेः क्तिनि हेतिरित्यन्तोदात्तो निपात्यते। चुक्रुधामेति क्रुधेर्ण्यन्ताल्लुङि चङि रूपम्॥३॥

10.142.4
यदु॒द्वतो᳚ नि॒वतो॒ यासि॒ बप्स॒त्पृथ᳚गेषि प्रग॒र्धिनी᳚व॒ सेना᳚ ।
य॒दा ते॒ वातो᳚ अनु॒वाति᳚ शो॒चिर्वप्ते᳚व॒ श्मश्रु᳚ वपसि॒ प्र भूम᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । उ॒त्॑वतः᳚ । नि॒॑वतः᳚ । यासि᳚ । बप्स᳚त् । पृथ᳚क् । ए॒षि॒ । प्र॒ग॒र्धिनी᳚॑इव । सेना᳚ ।
य॒दा । ते॒ । वातः᳚ । अ॒नु॒॑वाति᳚ । शो॒चिः । वप्ता᳚॑इव । श्मश्रु᳚ । व॒प॒सि॒ । प्र । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदोद्वत उद्गतानुच्छ्रितान् निवतो नीचिनांस्तरुगुल्मादीन् हे अग्ने बप्सद्दहन्यासि प्राप्नोषि तदानीं बह्वीभिर्ज्वालाभिः पृथग्विभिन्नः सन्नेषि। गच्छसि। तत्र दृष्टान्तः। प्रगर्धिनीव सेना। गृधु अभिकाङ्क्षायाम्। परराष्ट्रं गच्छतो राज्ञह् सेना तत्रत्यं धनजातमभिकाङ्क्षमाणेतस्ततः सङ्घशो गच्छाति तद्वत्। वातो वायुश्च ते तव शोचिः दीप्तिं यदा यस्मिन्कालेऽनुवाति अनुगुनं प्रवर्तते तदाश्मश्रु। श्म शरीरम्। तत्र श्रितं स्थितं केशरोमादिकं वस्तेव यथा वप्ता नापितो वपति मुण्डयति तथा भूम भूमिं प्र वपसि। प्रकर्षेण मुण्डयसि। सर्वं वनं निःशेषेण दहसीत्यर्थः॥४॥

10.142.5 समानपद
प्रत्य᳚स्य॒ श्रेण᳚यो ददृश्र॒ एकं᳚ नि॒यानं᳚ ब॒हवो॒ रथा᳚सः ।
बा॒हू यद᳚ग्ने अनु॒मर्मृ᳚जानो॒ न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि᳚म् ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । अ॒स्य॒ । श्रेण᳚यः । द॒दृ॒श्रे॒ । एक᳚म् । नि॒॑यान᳚म् । ब॒हवः᳚ । रथा᳚सः ।
बा॒हू इति᳚ । यत् । अ॒ग्ने॒ । अ॒नु॒॑मर्मृ᳚जानः । न्य᳚ङ् । उ॒त्ता॒नाम् । अ॒नु॒॑एषि᳚ । भूमि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेर्दहतः श्रेणयो ज्वालापङ्क्तयः प्रति ददृश्रे। प्रतिदृश्यन्ते। .............. । तद्वत्। अत्र सामर्थ्यादुपमानप्रतितिः। हे अग्ने बाहू। तृतीयार्थे प्रथमा। बाहुभ्यां बाहुस्थानीयैर्ज्वालासमूहैरनुमर्मृजानः सर्वं वनं मृजञ्शोधयन्। दहन्नित्यर्थः। नय्ङ् न्यञ्चन् प्रह्वीभवन्नुत्तानामूर्ध्वाभिमुखां भूमिं यद्यदान्वेषि अनुगच्छसि तदानीमस्य श्रेणयो ददृश्र इत्यन्वयः॥५॥

10.142.6
उत्ते॒ शुष्मा᳚ जिहता॒मुत्ते᳚ अ॒र्चिरुत्ते᳚ अग्ने शशमा॒नस्य॒ वाजा᳚ः ।
उच्छ्व᳚ञ्चस्व॒ नि न᳚म॒ वर्ध᳚मान॒ आ त्वा॒द्य विश्वे॒ वस᳚वः सदन्तु ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । शुष्माः᳚ । जि॒ह॒ता॒म् । उत् । ते॒ । अ॒र्चिः । उत् । ते॒ । अ॒ग्ने॒ । श॒श॒मा॒नस्य᳚ । वाजाः᳚ ।
उत् । श्व॒ञ्च॒स्व॒ । नि । न॒म॒ । वर्ध᳚मानः । आ । त्वा॒ । अ॒द्य । विश्वे᳚ । वस᳚वः । स॒द॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव शुष्मा शोषका ज्वाला उज्जिहताम्। उद्गच्छन्तु। तथा ते तवार्चिर्दीप्तिश्चोद्गच्छतु। शशमानस्य स्तूयमानस्य। यद्वा। शश प्लुतगतौ। अस्मात्ताच्छिलिकश्चानश्। तस्य सार्वधातुकत्वे सति लसार्वधातुकत्वाभावाच्चित इत्यन्तोदात्तत्वमेव शिष्यते। शशमानस्य सर्वं वनमभिक्रम्य शीघ्रं गच्छतः। तव वाजा वेगा हे अग्ने उज्जिहताम्। स त्वं वर्धमानः सस्नुच्छ्वञ्चस्व। वन उद्गच्छस् श्वचि गतौ भौवादिकः। इदित्त्वान्नुम्। तथा नि नम। प्रह्वीभव। उन्नतं वृक्षादिकं प्राप्योच्छ्रितो भव। अवनतं गुल्मादिकं प्राद्यावनतो भवेत्यर्थः। ईदृशं त्वा त्वामद्यास्मिन्काले विश्वे सर्वे वसवो वासयितारो रश्मयो देवा वा सदन्तु। आसीदन्तु। प्राप्नुवन्तु। सदेर्व्यत्ययेन सीदादेशाभवः। शपि प्राप्ते व्यत्ययेनाब्वा कर्तव्यः॥६॥

10.142.7
अ॒पामि॒दं न्यय᳚नं समु॒द्रस्य᳚ नि॒वेश᳚नम् ।
अ॒न्यं कृ᳚णुष्वे॒तः पन्थां॒ तेन᳚ याहि॒ वशा{4}॒ अनु᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । इ॒दम् । नि॒॑अय᳚नम् । स॒मु॒द्रस्य᳚ । नि॒॑वेश᳚नम् ।
अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था᳚म् । तेन᳚ । या॒हि॒ । वशा᳚न् । अनु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत्थं खाण्डववनस्य दाहे प्रवृत्तमग्निं जरित्रुप्रभृतयः स्वात्मनो रक्षणकामास्तुष्टुवुः। इदानीं च स्तम्बमित्रः स्वनिवासभूमेर्दहनाभावायाग्नेरन्यत्र गमनं प्रार्थयते। इदमस्मदीयं निवासस्थानमपामुदकानां न्ययनम्। नियन्ति नितराम् गच्छन्त्यस्मिन्निति न्ययनं ह्रदः। तथा समुद्रस्योदधेश्च निवेशनं ग्रुहम्। यथा ह्रदः समुद्रस्य स्थानं च यथा दुग्धुं न शक्यते तथा दाहयोग्यं न भवत्वित्यर्थः। इतोऽस्मादस्मदीयात्स्थानादन्यं पन्थां पन्थानं मार्गं हे अग्ने कृणुष्व। कुरुष्व। तेन पथा वशाननु यथाकामं याहि। गच्छ॥७॥

10.142.8 समानपद
आय᳚ने ते प॒राय᳚णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणी᳚ः ।
ह्र॒दाश्च᳚ पु॒ण्डरी᳚काणि समु॒द्रस्य᳚ गृ॒हा इ॒मे ॥
▶ पदपाठः (Word-by-word)
आ॒॑अय᳚ने । ते॒ । प॒रा॒॑अय᳚ने । दूर्वाः᳚ । रो॒ह॒न्तु॒ । पु॒ष्पिणीः᳚ ।
ह्र॒दाः । च॒ । पु॒ण्डरी᳚काणि । स॒मु॒द्रस्य᳚ । गृ॒हाः । इ॒मे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयापि स्वनिवासस्य दाहानर्हता प्रतिपाद्यते। हे अग्ने ते तवायन आगमने पारायने परागमने वा सत्यस्यां निवासभूमौ पुष्पिणीः पुष्पवत्यो दूर्वा रोहन्तु। प्ररोहन्तु। तथा ह्रदा अशोष्योदका जलाशयाश्च भवन्तु। पुण्डरीकाणि पद्मानि च तेषु ह्रदेषु जायन्ताम्। किं बहुना। समुद्रस्य जलधेरिमेऽस्मिन्निवासप्रदेशे गृहा आश्रयभूता भवन्तु। यथा समुद्रावासभूमिः कदाचिदपि न दह्यते एवं कदाचिदप्यस्मत्स्थानं न दह्यतामित्यर्थः। एतदुक्तं भवति। दूर्वाकाण्डप्ररोहणप्रार्थनेन स्वाश्रयस्य शीतलत्वं ह्रदप्रार्थनेन तृष्णोपशमनकारणस्य जलस्य सत्त्वम् पुण्डरिकसद्भावप्रार्थनेनोपभोग्यस्य फलादेः सत्ता समुद्रग्रुहत्वप्रार्थनेन दाहानार्हता चेत्येतत्सर्वं प्रतिपाद्यत इति॥८॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके सप्तमोऽध्यायः समाप्तः॥