दशमं मण्डलम् - सूक्तम् 168

4 ऋचः

ऋषिः: अनिलो वातायनः देवता: वायुः छन्दः: त्रिष्टुप्

सूक्तम् 10.168 - सम्पूर्णम्

1 / 4
ऋक्: 10.168.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
10.168.1 समानपद
वात᳚स्य॒ नु म᳚हि॒मानं॒ रथ᳚स्य रु॒जन्ने᳚ति स्त॒नय᳚न्नस्य॒ घोषः᳚ ।
दि॒वि॒स्पृग्या᳚त्यरु॒णानि᳚ कृ॒ण्वन्नु॒तो ए᳚ति पृथि॒व्या रे॒णुमस्य᳚न् ॥
▶ पदपाठः (Word-by-word)
वात᳚स्य । नु । म॒हि॒मान᳚म् । रथ᳚स्य । रु॒जन् । ए॒ति॒ । स्त॒नय᳚न् । अ॒स्य॒ । घोषः᳚ ।
दि॒वि॒॑स्पृक् । या॒ति॒ । अ॒रु॒णानि᳚ । कृ॒ण्वन् । उ॒तो इति᳚ । ए॒ति॒ । पृ॒थि॒व्या । रे॒णुम् । अस्य᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातस्येति चतुरृचं सप्तदशं सूक्तं वातगोत्रस्यानिलाख्यस्यार्षं त्रैष्टुभं वायुदेवताकम् । तथा चानुक्रान्तम्। वातस्यानिलो वातायनो वायव्यमिति। गतो विनियोगः॥

वातस्य वायो रथस्य रंहणशीलस्य महिमानं माहात्म्यं नु क्शिप्रं प्रब्रवीमि। अस्य वायोर्घोषः शब्दः स्तनयन् गिरिगह्वरादिषु विविधं शब्दमुत्पादयन् रुजन् सर्वं स्थावरजङ्गमजातं भञ्जन्नेति। गच्छति। स च वायुर्दिविस्पृग्दिवमाकांशं स्पृशन् व्याप्नुवन्नरुणान्यरुणवर्णानि विकृतरूपाणि दिगन्तराणि कृण्वन्कुर्वन्याति। प्राप्नोति। उतो अपि च पृथिव्या भूमे रेणुं पांसुमस्यन् गृहीत्वा सर्वत्र विक्षिपन्नेति। गच्छति। अत एवारुणानि कृण्वन्नित्युक्तम्॥१॥

10.168.2
सं प्रेर᳚ते॒ अनु॒ वात᳚स्य वि॒ष्ठा ऐनं᳚ गच्छन्ति॒ सम᳚नं॒ न योषा᳚ः ।
ताभि᳚ः स॒युक्स॒रथं᳚ दे॒व ई᳚यते॒॑स्य विश्व᳚स्य॒ भुव᳚नस्य॒ राजा᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । प्र । ई॒र॒ते॒ । अनु᳚ । वात᳚स्य । वि॒॑स्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम᳚नम् । न । योषाः᳚ ।
ताभिः᳚ । स॒॑युक् । स॒॑रथ᳚म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व᳚स्य । भुव᳚नस्य । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विष्ठा विशेषेणावस्थिताः पर्व्चताद्या वातस्य वायोरनुगुणम् सं प्रेरते। सम्प्रगच्छन्ति। यदभिमुखो वायुर्वर्तते तदभिमुखाः प्रकम्पन्त इत्यर्थः। समनं न सङ्ग्राममिवैनं वायुं योषा अश्वयोषितो वडवा आ गच्छन्ति। ताभिर्वडवाभिः सयुक् स्वयमेव युज्यमानं सरथं समानमेकं रथमारुह्य देवो दीप्यमानो वायुरीयते। गच्छाति। ईङ् गतौ। अस्य विश्वस्य सर्वस्य भुवनस्य द्वितीयविकारभाजो भूतजातस्य राजा स्वामी भवति। यद्वा समनं धृष्टं पुरुषं योषाः कामिन्य इव एवं वायुं तरुगुल्मादिरूपाः स्त्रियोऽभिगच्छन्ति। ताभिः सरथं सहरथं देव ईयत इति॥२॥

10.168.3
अ॒न्तरि᳚क्षे प॒थिभि॒रीय᳚मानो॒ न नि वि᳚शते कत॒मच्च॒नाहः᳚ ।
अ॒पां सखा᳚ प्रथम॒जा ऋ॒तावा॒ क्व᳚ स्विज्जा॒तः कुत॒ आ ब᳚भूव ॥
▶ पदपाठः (Word-by-word)
अ॒न्तरि᳚क्षे । प॒थि॑भिः᳚ । ईय᳚मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति᳚ ।
अ॒पाम् । सखा᳚ । प्र॒थ॒म॒॑जाः । ऋ॒त॑वा᳚ । क्व᳚ । स्वि॒त् । जा॒तः । कुतः᳚ । आ । ब॒भू॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्तरिक्षे नभसि विद्यमानैः पथिभिर्मार्गैरीयमानो गच्छन्वायुः कतमच्चनाहरेकमपि दिनं न नि विशते। नोपविशति। किन्तु सर्वदैव गच्छाति। नेर्विशः। पा. १-३-१७। इत्यात्मनेपदम्। अपि चापामुदकानाम् सखा। वायुर्वै वृष्ट्या ईश इति श्रुतेः। प्रथमजाः सर्वेभ्यः प्राणिभ्यः पूर्वोत्पन्न एवर्तावा सत्यवान् एवम् भुतो वायुः क्व स्वित् कुत्र खलु देशे जात उत्पन्नः कुतः कस्माच्च देशान्निष्क्रम्या बभूव। इदं सर्वं जगद्व्याप्नोत्। सर्वदा सर्वत्र वर्तमानत्वादस्योत्पतिर्व्याप्ति प्रकारश्च न केनापि ज्ञातुं शक्यत इत्यर्थः॥३॥

10.168.4
आ॒त्मा दे॒वानां॒ भुव᳚नस्य॒ गर्भो᳚ यथाव॒शं च᳚रति दे॒व ए॒षः ।
घोषा॒ इद᳚स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता᳚य ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
आ॒त्मा । दे॒वाना᳚म् । भुव᳚नस्य । गर्भः᳚ । य॒था॒॑व॒शम् । च॒र॒ति॒ । दे॒वः । ए॒षः ।
घोषाः᳚ । इत् । अ॒स्य॒ । शृ॒ण्वि॒रे॒ । न । रू॒पम् । तस्मै᳚ । वाता᳚य । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं वायुर्देवानामिन्द्रादीनामप्यात्मा जीवरूपेण तेष्ववस्थानाद्भुवनस्यापि भूतजातस्य गर्भो गर्भवत्प्राणरूपेणान्तर्वर्तमान एष ईदृशो देवो यथावशम् यथाकामं यथेच्छं चरति। वर्तते। अनिवारितगतिः सन् क्वचिच्छीघ्रं गच्छति क्वचिच्छनैर्गतिः कुतश्चिच्छिरीरान्निष्क्रामत्यन्यच्च शरीरम् प्रविशतित्येवं यथेच्छं वर्तत इत्यर्थः। अस्य वायोरागच्छातो घोषा इच्छब्दा एव शृण्विरे। श्रूयन्ते। रूपं स्वरूपं तु न दृश्यते नीरूपत्वात्। अदृग्विषयत्वेन शब्देनैवानुमीयुत इत्यर्थः। तस्मै वाताय दायवे हविषा चरुपुरोडाशादिलक्शणेन विधेम। परिचरेम॥४॥