प्र मे᳚ ब्रूत भाग॒धेयं॒ यथा᳚ वो॒ येन᳚ प॒था ह॒व्यमा वो॒ वहा᳚नि ॥
पदपाठः (Word-by-word)
प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒॑धेय᳚म् । यथा᳚ । वः॒ । येन᳚ । प॒था । ह॒व्यम् । आ । वः॒ । वहा᳚नि ॥
सायणभाष्यम् (Sayana Commentary)
विश्वेदेवाः शास्तनेति षड्रुचं दशमं सूक्तं सौचीकस्याग्नेरार्षं वैश्वदेवम्। गतः सूक्तविनियोगः। सुग्रादापनात्पूर्वभाविनि जपे विनियुक्ता। सूत्रितं च। विश्वे देवाः शास्तन मा यथेहाराधि होता निषदा यजीयान्। आ. १-४। इति॥
एतत्सूक्तं कृत्स्नमाग्नेयम् । हे विश्वे देवाः यूयं मा मां शास्तन। अनुज्ञां दत्त। यथेह यज्ञे होता देवानामाह्वाता सन् वृतो होतृत्वेन वृतोऽहं मनवै स्त्ॐइ भवतः। यद्यस्मान्निषद्य स्त्ॐइ तस्माच्छास्तन। मे मम भागधेयं प्र ब्रूत। यथा वो यूयं भागं कल्पितवन्तः तथा तं भागं प्र ब्रूत येन च पथा वो हव्यमा वहानि। वहनं करोमि॥१॥