श्रवणम्

10.52.5
आ वो᳚ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा᳚ वो देवा॒ वरि᳚व॒ः करा᳚णि ।
आ बा॒ह्वोर्वज्र॒मिन्द्र᳚स्य धेया॒मथे॒मा विश्वा॒ः पृत᳚ना जयाति ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । य॒क्षि॒ । अ॒मृ॒त॒॑त्वम् । सु॒॑वीर᳚म् । यथा᳚ । वः॒ । दे॒वाः॒ । वरि᳚वः । करा᳚णि ।
आ । बा॒ह्वोः । वज्र᳚म् । इन्द्र᳚स्य । धे॒या॒म् । अथ᳚ । इ॒माः । विश्वाः᳚ । पृत᳚नाः । ज॒या॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा वो युष्माना यक्षि। आयाचे। किम् । अमृतत्वमविनाशित्वं सुवीरं सुपुत्रं च। हे देवाः वो युष्माकं वरिवः परिचर्यां हवीरूपं धनम् वा यथा कराणि करवाणि तदर्थमित्यर्थः। किञ्चेन्द्रस्य बाह्वोर्वज्रमा धेयाम्। ग्राहयामीत्यर्थः। अग्नेर्होतृत्वाभाव इन्द्रस्य सोमाद्यभावाद्दुर्बलत्वेन वज्रधारणं नोपपद्यते। अतस्तत्कृत्वा वज्रं ग्राहयामीत्यर्थः। अथैवं सतीमा विश्वाः सर्वाः पृतनाः शत्रुसेनाः जयाति। जयति। जयतु वा॥५॥