श्रवणम्

10.52.4
मां दे॒वा द᳚धिरे हव्य॒वाह॒मप᳚म्लुक्तं ब॒हु कृ॒च्छ्रा चर᳚न्तम् ।
अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः᳚ कल्पयाति॒ पञ्च᳚यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् ॥
▶ पदपाठः (Word-by-word)
माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒॑वाह᳚म् । अप᳚॑म्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर᳚न्तम् ।
अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च᳚॑यामम् । त्रि॒॑वृत᳚म् । स॒प्त॑त᳚न्तुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मामग्निं देवा हव्यवाहम् हविर्वोढारं दधिरे। कृतवन्तः। कीदृशं माम् । अपम्लुक्तमपक्रम्यागतम् । बहु कृच्छ्रा बहूनि कृच्छ्राणि स्थानानि चरन्तं गाच्छन्तम् । कया मनीषया दधिर इति उच्यते। अयमग्निर्विद्वान् सर्वं जानन्नोऽस्माकं यज्ञं कल्पयाति। कीद्रुशं यज्ञम् । पञ्चयामम्। पञ्चविधगमनम्। पाङ्क्तो हि यज्ञः। त्रिवृतम्। सवनत्रयभेदेन त्रिप्रकारं सप्ततन्तु सप्तभिश्छन्दोमयैः स्तुतिभिर्विस्तृतम्॥४॥