अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू᳚हे॒ यत्स᳚म॒ञ्जन्ति᳚ दे॒वाः ।
अह᳚रहर्जायते मा॒सिमा॒स्यथा᳚ दे॒वा द᳚धिरे हव्य॒वाह᳚म् ॥
अह᳚रहर्जायते मा॒सिमा॒स्यथा᳚ दे॒वा द᳚धिरे हव्य॒वाह᳚म् ॥
पदपाठः (Word-by-word)
अ॒यम् । यः । होता᳚ । किः । ऊं॒ इति᳚ । सः । य॒मस्य᳚ । कम् । अपि᳚ । ऊ॒हे॒ । यत् । स॒म्॑अ॒ञ्जन्ति᳚ । दे॒वाः ।
अहः᳚॑अहः । जा॒य॒ते॒ । मा॒सि॑मा᳚सि । अथ᳚ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒॑वाह᳚म् ॥
अहः᳚॑अहः । जा॒य॒ते॒ । मा॒सि॑मा᳚सि । अथ᳚ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒॑वाह᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
योऽयं होता स किः। को भवति। कीदृशो भवति। तस्य को व्यापार इत्यर्थः। तस्योत्तरमुच्यते। यमस्य मृत्योर्भीतः सन्निति शेशः। कमपि हुतमूहे। वहति। यद्वा। सर्वमृत्विग्जातं नियमयतिति यमो यजमानः। तस्य कमपि हुतमूहे। वहति देवान्प्रति। यत्समञ्जन्ति यद्धविः प्राप्नुवन्ति देवाः। किञ्चाग्निरहरहः प्रतिदिनमग्निहोत्रार्थं जायते। प्रादुर्भवति। तथा मासि मासि प्रतिमासं जायते पितृयज्ञार्थम् । एतत्कालद्वयमुपलक्षनं पक्शचतुर्मासषण्मास संवत्सरादीनाम् । अपरे पुनरेवमाहुः। अहरहः सूर्यात्मना जातते मासि मासि चन्द्रात्मनेति। अथ तमिममग्निं देवा दधिरे हव्यवाहम् । हविषां वोढारम् । एवमग्निरात्मानं स्वयमेवोक्तवान्॥३॥