तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यत्ते यममिति द्वादशर्चं षोडशं सूक्तमानुष्टुभम्। बन्ध्वादय ऋषयः सुबन्धुदेहान्निर्गतस्येन्द्रियवर्गसहितस्य मनसः पुनस्तस्मिन्प्रवेशनार्थमिदं सूक्तं दृष्ट्वाजपन्। अतस्तेऽस्यर्षयः। प्रतिपाद्यत्वादावर्तमानं मन एव देवता। तथा चानुक्रान्तम् । यत्त्त इति द्वादशर्चमानुष्टुभं मनाअवर्तनं चे पुरिति। गतो विनियोगः॥
पुरुषस्य म्रियमाणस्य मनो नाम महद्भूतं बहुधा विशीर्णं भवति। तस्य पुनः सम्भरणमत्रोच्यते। हे म्रियमाण पुरुष यत्ते तव मनो वैवस्वतं विवस्ततः पुत्रं यमं दूरकमत्यन्तं दूरं यथा भवति तथा जगाम ते तव तन्मन आ वर्तयामसि। आवर्तयामः। किमर्थम् । इह क्षयायेह लोके निवासाय जीवसे। चिरकालजीवनायेत्यर्थः॥१॥