श्रवणम्

10.58.9
यत्ते॒ पर्व᳚तान्बृह॒तो मनो᳚ ज॒गाम᳚ दूर॒कम् ।
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । पर्व᳚तान् । बृ॒ह॒तः । मनः᳚ । ज॒गाम᳚ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुबन्धो यत्ते मनो बृहतः पर्वतान् तदिति गतम्॥९॥