यत्ते᳚ भू॒तं च॒ भव्यं᳚ च॒ मनो᳚ ज॒गाम᳚ दूर॒कम् ।
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
यत् । ते॒ । भू॒तम् । च॒ । भव्य᳚म् । च॒ । मनः᳚ । ज॒गाम᳚ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुबन्धो यत्ते मनो भूतं च भव्यं चेत्यनेन भूतभय्वात्मकव्यतिरेकेण कस्यचिदभावाद्वर्तमानस्य पृथगेवाभिधानात् कृत्स्नं प्रपञ्चमुक्तं भवति। तत्र सर्वत्र गतं मनो जीवनाय निवासाय चावर्तयामः॥१२॥