यत्ते॒ भूमिं॒ चतु᳚र्भृष्टिं॒ मनो᳚ ज॒गाम᳚ दूर॒कम् ।
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
यत् । ते॒ । भूमि᳚म् । चतुः᳚॑भृष्टिम् । मनः᳚ । ज॒गाम᳚ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुबन्धो यन्मनो भूमिं चतुर्भृष्तिम्। चतुर्दिक्षु भ्रंशो यस्याः सा। तां जगाम तदावर्तयामः॥३॥