यत्ते᳚ समु॒द्रम᳚र्ण॒वं मनो᳚ ज॒गाम᳚ दूर॒कम् ।
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
यत् । ते॒ । स॒मु॒द्रम् । अ॒र्ण॒वम् । मनः᳚ । ज॒गाम᳚ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुबन्धो यत्ते मनोऽवर्णवम् । अर्णांस्युदकानि। तद्वन्तं समुद्रं मेघं वा जगाम तदावर्तयामः॥५॥