यत्ते॒ दिवं॒ यत्पृ᳚थि॒वीं मनो᳚ ज॒गाम᳚ दूर॒कम् ।
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
तत्त॒ आ व᳚र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
यत् । ते॒ । दिव᳚म् । यत् । पृ॒थि॒वीम् । मनः᳚ । ज॒गाम᳚ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया᳚य । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुबन्धो यन्मनो दिवं जगाम यच्च पृथिवीं दूरकम् । दूरकमिति क्रियाविशेषणम्। तदिह निवसाय जीवनाय चावतर्यामः॥२॥