दशमं मण्डलम् - सूक्तम् 107

11 ऋचः

ऋषिः: दिव्यो दक्षिणा वा प्राजापत्या देवता: दक्षिणा तद्दातारो वा छन्दः: त्रिष्टुप्

सूक्तम् 10.107 - सम्पूर्णम्

1 / 11
ऋक्: 10.107.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.107.1 समानपद
आ॒विर᳚भू॒न्महि॒ माघो᳚नमेषां॒ विश्वं᳚ जी॒वं तम᳚सो॒ निर᳚मोचि ।
महि॒ ज्योति᳚ः पि॒तृभि᳚र्द॒त्तमागा᳚दु॒रुः पन्था॒ दक्षि᳚णाया अदर्शि ॥
▶ पदपाठः (Word-by-word)
आ॒विः । अ॒भू॒त् । महि᳚ । माघो᳚नम् । ए॒षा॒म् । विश्व᳚म् । जी॒वम् । तम᳚सः । निः । अ॒मो॒चि॒ ।
महि᳚ । ज्योतिः᳚ । पि॒तृ॑भिः᳚ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः᳚ । दक्षि᳚णायाः । अ॒द॒र्शि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अविरित्येकादशर्चमष्टमं सूक्तम्। दिव्यो नामाङ्गिरस ऋषिः। प्रजापतेः सुता दक्षिणा सा वर्षिका। शतधारं वायुमिति चतुर्थी जगती शिष्टा दश त्रिष्टुभः। अनेन सूक्तेन र्त्विग्भ्यो दीयमाना दक्षिणा तद्दातारो यजमाना वा स्तूयन्ते। अतः सैव देवता। तथा चानुक्रान्तम्। आविर्दिव्यो दक्षिणा वा प्राजापत्या दक्षिणां तद्दातॄन्वास्तौच्चतुर्थी जगतीति। गतो विनियोगः॥

इदं सूक्तं दक्षिणाया वा तद्दातॄणां वा स्तावकम्। दक्षिणा तु यागाङ्गगं यागस्तु सायङ्काले न क्रियते। न सायमस्ति देवया अजुष्टम्। ऋ. ५-७७-२। इत्यादिश्रवणात्। तस्मादह्न्येव कर्तव्यः। अहश्च सूर्योदयात्पश्चाद्भवतीति सूक्तादौ सूर्योदयोऽभिधीयते। माघोनम्। मघवेन्द्रः। इन्द्रश्च सूर्यश्चैत्रमासे तयोरिन्द्र इति स्मरणात्। तस्य सम्बन्धि। तस्येदमित्यण्। अतद्धिते प्रत्यये सम्प्रसारणमभिहितम्। पा. ६-४-१३३। सर्वविधीनां छन्दसि विकल्पितत्वादत्र तद्धितेऽपि सम्प्रसारणम्। सूर्यात्मकस्येन्द्रस्य स्वभुतम् महि महत्तेज एषां यजमानानां यागसिद्ध्यर्थमाविरभुत्। प्रकाशितमुद्गतमभुत्। तत्र विश्वं सर्वं जीवं स्थावरजङ्गमात्मकं जगत्तमसः सकाशान्निरमोचि। निर्मुक्तमभूत्। मुञ्चतेः कर्मलुङि चिणि रूपम्। अथानन्तरं पितृभिर्यत्पितृभिर्देवैर्दत्तं नो हविषामागमनाय तन्महि महज्ज्योतिः सूर्याख्यमागात्। आगच्छति। पश्चाद्दक्षिणाया यागाङ्गभूताया उरुर्महान् पन्था मार्गोऽदर्शि। सर्वैर्यजमानैर्दृष्टोऽभूत्। सर्वे यागं क्रुत्वर्त्विग्भ्यो दक्षिणां दत्तवन्त इत्यर्थः॥१॥

10.107.2
उ॒च्चा दि॒वि दक्षि᳚णावन्तो अस्थु॒र्ये अ᳚श्व॒दाः स॒ह ते सूर्ये᳚ण ।
हि॒र॒ण्य॒दा अ᳚मृत॒त्वं भ᳚जन्ते वासो॒दाः सो᳚म॒ प्र ति᳚रन्त॒ आयु᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒च्चा । दि॒वि । दक्षि᳚णा॑वन्तः । अ॒स्थुः॒ । ये । अ॒श्व॒॑दाः । स॒ह । ते । सूर्ये᳚ण ।
हि॒र॒ण्य॒॑दाः । अ॒मृ॒त॒॑त्वम् । भ॒ज॒न्ते॒ । वा॒सः॒॑दाः । सो॒म॒ । प्र । ति॒र॒न्ते॒ । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दक्षिणावन्तो दक्शिणाया देयत्वेन तद्वन्तो दक्षिणां दत्तवन्तो यजमाना उच्चोच्चैः स्थानैः स्थिते दिवि द्युलोकेऽस्थुः। तिष्ठन्ति। सामान्येनोक्त्वा दातृ विशेषाणां फलविशेषमाह अश्वदा अश्वानां दातारो ये यजमानाः ते सूर्येण सर्वस्य स्वस्वकर्मणि प्रेरकेनादित्येन सह तिष्ठन्ति। ये हिरण्यदा हिरण्यदतारः तेऽमृतत्वममरणधर्मत्वं देवत्वं भजन्ते। अमृतं वै हिरण्यमित्याम्नानात्। तथा स्ॐयं वै वास इति श्रवणात्सोम एव सम्बोध्यते। हे सोम वासो दास्त्वद्देवत्यवस्त्राणां दातारो ये सन्ति ते त्वया सह तिष्ठन्तीति शेषः। एते सर्व आयुर्जीवनं प्रतिरन्ते। प्रवर्धयन्ति। प्रपूर्वस्तिरतिर्वृद्ध्यर्थः॥२॥

10.107.3
दैवी᳚ पू॒र्तिर्दक्षि᳚णा देवय॒ज्या न क᳚वा॒रिभ्यो᳚ न॒हि ते पृ॒णन्ति᳚ ।
अथा॒ नर॒ः प्रय᳚तदक्षिणासो॑वद्यभि॒या ब॒हवः᳚ पृणन्ति ॥
▶ पदपाठः (Word-by-word)
दैवी᳚ । पू॒र्तिः । दक्षि᳚णा । दे॒व॒॑य॒ज्या । न । क॒व॒॑अ॒रिभ्यः᳚ । न॒हि । ते । पृ॒णन्ति᳚ ।
अथ᳚ । नरः᳚ । प्रय᳚त॑दक्षिणासः । अ॒व॒द्य॒॑भि॒या । ब॒हवः᳚ । पृ॒ण॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैवी देवसम्बन्धिनी। देवाद्यञञौ। पा. ४-१-८५-३। इत्यञ्। तादृशी पूर्तिः पालिनी तत्साध्या देवयज्या। छन्दसि निष्टर्क्येति नोपातितः। देवयागः तदङ्गभूता दक्षिणा न कवारिभ्यः। ऋ गतावित्यस्याच इः। उ. ४-१३८। इतीप्रत्ययः। कुत्सितगन्तृभ्योऽयष्टृभ्यः। एतेभ्यो न भवति। यद्वा। देवानां स्वभूता पूर्तिः पूरयित्री स्तुतिभिर्हविर्भिश्च तादृशी देवयज्या दक्षिणा च तेभ्यो न भवतः। तत्र हेतुरुच्यते। हि यस्मात्ते कुत्सितगन्तारो नहि पृणन्ति देवान्स्तुतिभिर्हविर्भिवा न प्रीणयन्ति। पृण् प्रीणने तौदादिकः। अथेति प्रश्ने। यष्टॄणां देवयागादि कथं भवति। उच्यते। नरः कर्माणां नेतारः अत एव प्रयतदक्शिणासो दत्तदक्षिणा बह्वओ यजमाना अवद्यभिया। अवद्यपण्यवर्या गर्ह्येति। पा. ३-१-१०१। यत्प्रत्ययान्तत्वेन निपातितः। पापभिया। विहिताननुष्ठाने दुरितानि भवन्ति खलु। तस्मात्तद्भीत्या पृणन्ति। देवान्प्रीणयन्ति। तस्माद्यश्टॄणाम् देवपालनयागदक्षिणा भवतीत्यर्थः॥३॥

10.107.4
श॒तधा᳚रं वा॒युम॒र्कं स्व॒र्विदं᳚ नृ॒चक्ष᳚स॒स्ते अ॒भि च᳚क्षते ह॒विः ।
ये पृ॒णन्ति॒ प्र च॒ यच्छ᳚न्ति संग॒मे ते दक्षि᳚णां दुहते स॒प्तमा᳚तरम् ॥
▶ पदपाठः (Word-by-word)
श॒त॑धा᳚रम् । वा॒युम् । अ॒र्कम् । स्वः॒॑विद᳚म् । नृ॒॑चक्ष᳚सः । ते । अ॒भि । च॒क्ष॒ते॒ । ह॒विः ।
ये । पृ॒णन्ति᳚ । प्र । च॒ । यच्छ᳚न्ति । स॒म्॑ग॒मे । ते । दक्षि᳚णाम् । दु॒ह॒ते॒ । स॒प्त॑मा᳚तरम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतधारम् बहुधारेणोपेतं वायुमेतन्नामकं स्व्वर्विदं स्वर्गस्य लम्भकं सर्वस्य वेत्तारं वार्कमर्चनीयमादित्यं च तौ नृचक्षसो नृणां द्रष्टॄनन्यानिन्द्रादीन्देवांश्चाभिलक्ष्य ते यजमाना हविश्चक्षते। तेभ्यो दातुं पश्यन्ति जानन्ति। चष्टेर्लटि रूपम्। किञ्च सङ्गमे। कर्मकरणार्थमृत्विजोऽत्र सङ्गञ्च्छन्त इति सङ्गमः। ग्रहवृद्धनिश्चिगमश्चेत्यधिकरनेऽप्। थाथादिस्वरः। तस्मिन्यज्ञे ये यश्टारः पृणन्ति स्तुतिभिः प्रीणयन्ति। ये च तेभ्यो देवेभ्यो हवींषि प्रयच्छन्ति। उभयत्र यद्योगादनिघातः। ते सप्तमातरम् । सप्तस~ख्याका मातृभुता अग्निष्टोमादिसम्स्था यस्याम् भवन्ति सा। यद्व सप्तसङ्ख्याका मातरः कर्मणां निर्मातारः कर्तारो होत्रादयः सन्ति। तादृशीं दक्षिणां दुहते। ऋत्विग्भ्यो दुहन्ति॥४॥

10.107.5
दक्षि᳚णावान्प्रथ॒मो हू॒त ए᳚ति॒ दक्षि᳚णावान्ग्राम॒णीरग्र᳚मेति ।
तमे॒व म᳚न्ये नृ॒पतिं॒ जना᳚नां॒ यः प्र᳚थ॒मो दक्षि᳚णामावि॒वाय᳚ ॥
▶ पदपाठः (Word-by-word)
दक्षि᳚णा॑वान् । प्र॒थ॒मः । हू॒तः । ए॒ति॒ । दक्षि᳚णा॑वान् । ग्रा॒म॒॑नीः । अग्र᳚म् । ए॒ति॒ ।
तम् । ए॒व । म॒न्ये॒ । नृ॒॑पति᳚म् । जना᳚नाम् । यः । प्र॒थ॒मः । दक्षि᳚णाम् । आ॒॑वि॒वाय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हूत ऋत्विग्भिराहूतो दक्षिणावान्यजमानः प्रथमः सर्वेषां मुख्यः सन्नेति। सर्वत्र गच्छाति। तथा ग्रामणीर्ग्रामाणां नेता धववत्त्वेन तेषां कर्ता दक्षिणावान् सोऽग्रमेति। सर्वेषां प्रथममेव गच्छाति। तमेव नृपतिं नरानाम् पालयितारमिति मन्य ऋषिरहमवबुध्ये प्रथमो यो जनानां दक्षिणामाविवाय आगमयति। वीगत्यादिषु। तस्य लिटि रूपम्। तं न्रुपतिमिति मन्ये। यद्वा। जनानामिति पूर्ववाक्यशेषः। जनानां मध्ये तमेव मनुष्याणां स्वामिनमिति मन्ये॥५॥

10.107.6
तमे॒व ऋषिं॒ तमु᳚ ब्र॒ह्माण᳚माहुर्यज्ञ॒न्यं᳚ साम॒गामु᳚क्थ॒शास᳚म् ।
स शु॒क्रस्य᳚ त॒न्वो᳚ वेद ति॒स्रो यः प्र᳚थ॒मो दक्षि᳚णया र॒राध᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ए॒व । ऋषि᳚म् । तम् । ऊं॒ इति᳚ । ब्र॒ह्माण᳚म् । आ॒हुः॒ । य॒ज्ञ॒॑न्य᳚म् । सा॒म॒॑गाम् । उ॒क्थ॒॑शस᳚म् ।
सः । शु॒क्रस्य᳚ । त॒न्वः᳚ । वे॒द॒ । ति॒स्रः । यः । प्र॒थ॒मः । दक्षि᳚णया । र॒राध᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमेव क्षिणाया दातारमृषिमतीन्द्रियार्थदर्शिनं यद्वा सत्कर्मकरनेनर्षिमित्याहुः। तथा तमु तमेव ब्रह्माणमाहुः। किञ्च तमेव यज्ञन्यम्। णीञ् प्रापणे। क्विप्। उदात्तस्वरितयोर्यण इत्यमः स्वरितत्वम्। यज्ञस्य नेतारमध्वर्युमित्याहुः। तमेव सामगां साम्नां गातारमिति। तथोक्थशासम्। शन्सु स्तुतौ। क्विप्। संहितायां दीर्घश्छान्दसः। उक्थशसं शस्त्राणां शंसितारं होतारमिति ब्रुवन्ति। दक्षिणादानेन तत्कर्मणः परिग्रहात्। स दाता शुक्रस्य दीप्यमानस्य ज्योतिषस्तिस्रस्तन्वोऽग्निवैद्युतादित्यात्मकानि त्रीणि शरीराणि वेद। जानाति। यद्वा। शुक्रस्य दीप्तस्याग्नेराहवनीयाद्यात्मकानि त्रीणि शरीराणि जानाति। प्रथमो मुख्यो यो जनो दक्षिणया रराध ऋत्विगादीनाराधयति। राध संसिद्धौ। लिटि रूपम्। लिट् स्वरः॥६॥

10.107.7 समानपद
दक्षि॒णाश्वं॒ दक्षि᳚णा॒ गां द᳚दाति॒ दक्षि᳚णा च॒न्द्रमु॒त यद्धिर᳚ण्यम् ।
दक्षि॒णान्नं᳚ वनुते॒ यो न᳚ आ॒त्मा दक्षि᳚णां॒ वर्म᳚ कृणुते विजा॒नन् ॥
▶ पदपाठः (Word-by-word)
दक्षि᳚णा । अश्व᳚म् । दक्षि᳚णा । गाम् । द॒दा॒ति॒ । दक्षि᳚णा । च॒न्द्रम् । उ॒त । यत् । हिर᳚ण्यम् ।
दक्षि᳚णा । अन्न᳚म् । व॒नु॒ते॒ । यः । नः॒ । आ॒त्मा । दक्षि᳚णाम् । वर्म᳚ । कृ॒णु॒ते॒ । वि॒॑जा॒नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दक्षिणा तद्दातृभ्योऽश्वं ददाति। तथा गां च ददाति तथा चन्द्रं सुवर्णं ददाति। उतापि च यद्धिरण्यं रजतमस्ति। रजतं हिरण्यमित्याम्नानात्। तच्च ददाति। किञ्च सान्नं वनुते। ददाति। वनोतिरत्र दानार्थः। तस्मान्नोऽस्मदीयो य आत्मास्ति स वर्म विजानन् कवचं यथायुधानां निवारकं तद्वद्दुरितानि वारयतीति कवचमिति विजानन् दक्षिणामश्वादिदानशीलां कृणुते। ऋत्विग्भ्यः करोति॥७॥

10.107.8
न भो॒जा म᳚म्रु॒र्न न्य॒र्थमी᳚यु॒र्न रि᳚ष्यन्ति॒ न व्य᳚थन्ते ह भो॒जाः ।
इ॒दं यद्विश्वं॒ भुव᳚नं॒ स्व᳚श्चै॒तत्सर्वं॒ दक्षि᳚णैभ्यो ददाति ॥
▶ पदपाठः (Word-by-word)
न । भो॒जाः । म॒म्रुः॒ । न । नि॒॑अ॒र्थम् । ई॒युः॒ । न । रि॒ष्य॒न्ति॒ । न । व्य॒थ॒न्ते॒ । ह॒ । भो॒जाः ।
इ॒दम् । यत् । विश्व᳚म् । भुव᳚नम् । स्वः᳚ । च॒ । ए॒तत् । सर्व᳚म् । दक्षि᳚णा । ए॒भ्यः॒ । द॒दा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भोजा भोजयितारो धनादिदानेन दातारो न मम्रुः। न म्रियन्ते। देवत्वं भजन्त इत्यर्थः। अत एव न्यर्थम् । ऋ गतौ। उषिकुषिगार्तिभ्यस्थन्। उ. २-४। समासे थाथादिस्वरः। निक्रुष्टां गतिं नेयुः। न प्राप्नुवन्ति। इण् गतौ। लिटि दीर्घ इणः कितीति दीर्घः। तथा च न रिष्यन्ति। कैश्चिदप्यहिंसिता भवन्ति। कर्मणि व्यत्यौयेन परस्मैपदम्। अत एव भोजा दातारो न व्यथन्ते। परस्परं न भीता न बाधिता वा भवन्ति। ह प्रसिद्धौ। किञ्चेदं परिदृश्यमानं विस्वं सर्वं भुवनं यद्भूतजातमस्ति स्वश्च स्वर्गलोकश्च एतत्सर्वम् दक्शिणा स्वयमेभ्यस्तद्दातृभ्यो ददाति। प्रयच्छति॥८॥

10.107.9
भो॒जा जि᳚ग्युः सुर॒भिं योनि॒मग्रे᳚ भो॒जा जि᳚ग्युर्व॒ध्वं१॒᳚ या सु॒वासा᳚ः ।
भो॒जा जि᳚ग्युरन्त॒ःपेयं॒ सुरा᳚या भो॒जा जि᳚ग्यु॒र्ये अहू᳚ताः प्र॒यन्ति᳚ ॥
▶ पदपाठः (Word-by-word)
भो॒जाः । जि॒ग्युः॒ । सु॒र॒भिम् । योनि᳚म् । अग्रे᳚ । भो॒जाः । जि॒ग्युः॒ । व॒ध्व᳚म् । या । सु॒॑वासाः᳚ ।
भो॒जाः । जि॒ग्युः॒ । अ॒न्तः॒॑पेय᳚म् । सुरा᳚याः । भो॒जाः । जि॒ग्युः॒ । ये । अहू᳚ताः । प्र॒॑यन्ति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भोजा दातारोऽग्रे प्रथमेव योनिं क्षीरादेरुत्पत्तिस्थानं सुरभिं धेनुं जिग्युः। शत्रुभ्यो जितवन्तः। जि जये। लिटि सन् लिटोर्जेरित्यभ्यासादुत्तरस्य कवर्गादेशः। तथा भोजा दातारो वध्वं वधूं नवोढां स्त्रीं जिग्युः। किञ्च भोजाः शत्रूणां सुराया अन्तःपेयमन्तःपानं जिग्युः। पा पाने। भावे यत्। ईद्यतितीत्वम्। आर्धधातुकलक्षणो गुणः। कृदुत्तरपदप्रकृतिस्वरत्वम्। ये शत्रवोऽहूता बलाधिक्येनाहूयमानाः प्रयन्ति प्रमुखमागच्छन्ति तान्भोजा दक्षिणाया दातारो जनाजिग्युः । जयन्ति॥९॥

10.107.10
भो॒जायाश्वं॒ सं मृ᳚जन्त्या॒शुं भो॒जाया᳚स्ते क॒न्या॒३॒᳚ शुम्भ᳚माना ।
भो॒जस्ये॒दं पु᳚ष्क॒रिणी᳚व॒ वेश्म॒ परि᳚ष्कृतं देवमा॒नेव᳚ चि॒त्रम् ॥
▶ पदपाठः (Word-by-word)
भो॒जाय᳚ । अश्व᳚म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय᳚ । आ॒स्ते॒ । क॒न्या᳚ । शुम्भ᳚माना ।
भो॒जस्य᳚ । इ॒दम् । पु॒ष्क॒रिणी᳚॑इव । वेश्म᳚ । परि᳚॑कृतम् । दे॒व॒मा॒ना॑इ᳚व । चि॒त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भोजाय दात्र आशुं शीघ्रगामिनमश्वं सं म्रुजन्ति। परिचारकाः सम्यगलङ्कुर्वन्ति। मृजू शौचालङ्कारयोः। तथा कन्या। कन्यात्वेनात्र सन्निकर्षादभिनवं यौवनं लक्ष्यते। अभिनवयौवना शुंभमाना शरीरावयवशोभया वस्त्राद्यलङ्कारशोभया च शोभमाना स्त्री तस्मै भोजाय दात्र आस्ते। तथा भोजस्य दातुरेव हृदयाह्लादकरम् वेश्म गृहं भवति। कीदृशम् । पुष्करिणीव। पुष्कराणि पद्मानि यस्याः सन्तीति पुष्करणी सरसी। सा यथा पद्महंसादिभिरलङ्कृता भवति तद्वत् परिष्कृतं वितानादिभिरलङ्कृतम्। परिपूर्वस्य करोतेर्भूषणार्थे संहितायां सुडागमः। परिनिविभ्य इति सुटः षत्वम्। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। तथा देवमानेव। सुपां सुलुगिति प्रथमैकवचनस्याकारः। देवमानमिव चित्रं मनोहरं वेश्म तस्य भवति॥१०॥

10.107.11 समानपद
भो॒जमश्वा᳚ः सुष्ठु॒वाहो᳚ वहन्ति सु॒वृद्रथो᳚ वर्तते॒ दक्षि᳚णायाः ।
भो॒जं दे᳚वासो॑वता॒ भरे᳚षु भो॒जः शत्रू᳚न्त्समनी॒केषु॒ जेता᳚ ॥
▶ पदपाठः (Word-by-word)
भो॒जम् । अश्वाः᳚ । सु॒ष्ठु॒॑वाहः᳚ । व॒ह॒न्ति॒ । सु॒॑वृत् । रथः᳚ । व॒र्त॒ते॒ । दक्षि᳚णायाः ।
भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे᳚षु । भो॒जः । शत्रू᳚न् । स॒म्॑अ॒नी॒केषु᳚ । जेता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुष्ठुवाहः। वह प्रापने। वहश्चेति ण्विप्रत्ययः। शोभनवहनसमर्था अश्वा भोजं दातारं वहन्ति। लक्ष्यं देशं प्रापयन्ति। ततो दक्षिणाया दातुर्यजमानस्य सुवृत् सुष्ठु चक्रादिवर्तनं यस्य सोऽश्वादिसहितो रथो वर्तते। अथ प्रत्यक्षः। हे देवासो हे देवा इन्द्रादयः भरेषु। भ्रियत आहवनीयादिरूपेणागिन्रत्रेति भरा यज्ञाः। यद्वा। भॄ भर्त्सने। भृणन्ति भर्त्सयन्ति योद्धारोऽत्रेति भराः सङ्ग्रामाः। तेषु भोजं दातारमवत। रक्षत। ततो युश्माभिः पालितो भोजो धनादिदानेन जनानां भोजयिता सन् समनीकेषु सङ्ग्रामेषु शत्रूञ्जेता जयशीलो भवति। जि जये। ताच्छीलिकस्तृन्। अत एव न लोकाव्ययेति शत्रुशब्दस्य षष्ठीप्रतिषेधः॥११॥