उ॒ताग᳚श्च॒क्रुषं᳚ देवा॒ देवा᳚ जी॒वय᳚था॒ पुनः᳚ ॥
पदपाठः (Word-by-word)
उ॒त । आगः᳚ । च॒क्रुष᳚म् ।दे॒वाः॒ । देवाः᳚ । जी॒वय᳚थ । पुन॒रिति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उत देवा इति सप्तर्चम् नवमं सुक्तमानुष्टुभं वैश्वदेवं भरद्वाजकश्यपगोतमात्रिविश्वामित्रजमदग्निवसिष्था इति क्रमेन प्रत्युचमृषयः। तथा चानुक्रान्तम्। उत देवाः सप्तर्षय एकार्चा वैश्वदेवमिति। गतो विनियोगः॥
उतापि च हे देवाह् अवहितमुन्नयथ। उतापि च हे देवाः आगोऽपराधम् चक्रुषं कृतवन्तं मां तस्मादागसो रक्षत। हे देवाः रक्षित्वा च पुनः पश्चाज्जीवयथ। चिरजीविनं कुरुत॥१॥