श्रवणम्

10.137.4
आ त्वा᳚गमं॒ शंता᳚तिभि॒रथो᳚ अरि॒ष्टता᳚तिभिः ।
दक्षं᳚ ते भ॒द्रमाभा᳚र्षं॒ परा॒ यक्ष्मं᳚ सुवामि ते ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । अ॒ग॒म॒म् । शन्ता᳚ति॑भिः । अथो॒ इति᳚ । अ॒रि॒ष्टता᳚ति॑भिः ।
दक्ष᳚म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा᳚ । यक्ष्म᳚म् । सु॒वा॒मि॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः त्वा त्वाम् शन्तातिभिः सुखकरैरथो अपि चारिष्टतातिभिरहिंसाकरैश्च रक्शनैरागमम्। आगतवानस्मि। शिवशमरिष्टस्य करे। पा. ४-४-१४३। इत्युभयत्र तातिल्प्रत्ययः। लितीति प्रत्ययात्पूर्वस्योदात्तत्वम्। अपि च भद्रं कल्याणं ते तव दक्षम् बलमभार्षम्। आहार्षम्। वायुसकाशादानैषम्। तथा ते तव यक्ष्मं रोगम् च परा सुवामि। विनाशयामि॥४॥