श्रवणम्

10.137.3
आ वा᳚त वाहि भेष॒जं वि वा᳚त वाहि॒ यद्रपः᳚ ।
त्वं हि वि॒श्वभे᳚षजो दे॒वानां᳚ दू॒त ईय᳚से ॥
▶ पदपाठः (Word-by-word)
आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः᳚ ।
त्वम् । हि । वि॒श्व॑भे᳚षजः । दे॒वाना᳚म् । दू॒तः । ईय᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वात भेषजं सुखं व्याध्युपशमनमौषधं वा वाहि। आगमय। हे वाअतयद्रपोऽस्मदीयं पापं तद्वि वाहि। विगमय। अस्मत्तो विश्लेषय। त्वं हि खलु देवानां दूतो विश्वभेषजः। विश्वानि भेषजानि यस्मिन्। बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम्। ईदृशश्च सन्नीयसे। सततं गच्छसि। ईङ् गतौ दैवादिकः। श्यनो नित्त्वात् ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम्। हि चेति निघात प्रतिषेधः॥३॥