द्वावि॒मौ वातौ᳚ वात॒ आ सिन्धो॒रा प᳚रा॒वतः᳚ ।
दक्षं᳚ ते अ॒न्य आ वा᳚तु॒ परा॒न्यो वा᳚तु॒ यद्रपः᳚ ॥
दक्षं᳚ ते अ॒न्य आ वा᳚तु॒ परा॒न्यो वा᳚तु॒ यद्रपः᳚ ॥
पदपाठः (Word-by-word)
द्वौ । इ॒मौ । वातौ᳚ । वा॒तः॒ । आ । सिन्धोः᳚ । आ । प॒रा॒॑वतः᳚ ।
दक्ष᳚म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा᳚ । अ॒न्यः । वा॒तु॒ । यत् । रपः᳚ ॥
दक्ष᳚म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा᳚ । अ॒न्यः । वा॒तु॒ । यत् । रपः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इमौ दृश्यमानौ द्वौ वातौ पुरोवातः पश्चाद्वातश्चा सिन्धोरा समुद्रात्। मर्यादायामाकारः। यद्वा। परावतः समुद्रादपि यो दूरदेशस्तं देशमवधीकृत्य वातः। गच्छतः। वा गतिगन्धनयोः आदादिकः। तयोर्वातयोरन्य एको हे स्तोतः ते तव दक्षं बलमा वातु। आगमयतु। अन्यश्च त्वदीयं यद्रपः पापं तत्नरा वातु। प्राअगमयतु॥२॥