श्रवणम्

10.137.6 समानपद
आप॒ इद्वा उ᳚ भेष॒जीरापो᳚ अमीव॒चात᳚नीः ।
आप॒ः सर्व᳚स्य भेष॒जीस्तास्ते᳚ कृण्वन्तु भेष॒जम् ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । इत् । वा॒ । ऊं॒ इति᳚ । भे॒ष॒जीः । आपः᳚ । अ॒मी॒व॒॑चात᳚नीः ।
आपः᳚ । सर्व᳚स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप इद्वा अप एव खलु भेषजीर्भेषजभूताः। स्नानपानादिना सुखहेतवः। यद्वा। ओषधिरूपेण परिणता रोगोपशमनहेतवो भवन्ति। केवलमामकेत्यादिना। पा. ४-१-३०। भेषजशब्दाद्ङीप्। उदात्तनिव्रुत्तिस्वरेण ङीप उदात्तत्वम्। जसि वा छन्दसिति पूर्वसवर्णदीर्घत्वम्। य एवमतः कारनदापोऽमीवचातनीरमीवचातन्यो रोगाणां नाशयित्र्यो भवन्ति। चातयतिर्वधकर्मा। किंचापः सर्वस्य प्राणिजातस्य भेषजीर्भेषजभुता भवन्ति न कतिपयस्य। तास्तथाविधा आपस्ते तव भेषजं कृण्वन्तु। कुर्वन्तु॥६॥