दशमं मण्डलम् - सूक्तम् 42

11 ऋचः

ऋषिः: कृष्णः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.42 - सम्पूर्णम्

1 / 11
ऋक्: 10.42.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.42.1 समानपद
अस्ते᳚व॒ सु प्र᳚त॒रं लाय॒मस्य॒न्भूष᳚न्निव॒ प्र भ᳚रा॒ स्तोम᳚मस्मै ।
वा॒चा वि᳚प्रास्तरत॒ वाच᳚म॒र्यो नि रा᳚मय जरित॒ः सोम॒ इन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
अस्ता᳚॑इव । सु । प्र॒॑त॒रम् । लाय᳚म् । अस्य᳚न् । भूष᳚न्॑इव । प्र । भ॒र॒ । स्तोम᳚म् । अ॒स्मै॒ ।
वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच᳚म् । अ॒र्यः । नि । र॒म॒य॒ । ज॒रि॒त॒रिति᳚ । सोमे᳚ । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रतरं प्रवृद्धतरं लायं संश्लेषणं हृदयवेधिनं शरं सु सुष्ठु अस्यन् क्षिपन् अस्तेव यथा क्षेप्ता धानुष्कोभूषन्निव यथावालंकारमलंकुर्वन्नलंकर्ता तद्वत् स्तोममस्माइंद्राय प्रभर प्राप- य । हे अंतरात्मन् त्वमितिशॆषः । किंच हे विप्रामेधाविनोयूयं वाचा स्तुत्या अर्यः अरेः शत्रोर्वाचं तरत नितरां तरत निराकुरुतइत्यर्थः । हे जरितः स्तातस्त्वं मे सोमयागे इंद्रं निरमय क्रीडय ॥ १ ॥

10.42.2
दोहे᳚न॒ गामुप᳚ शिक्षा॒ सखा᳚यं॒ प्र बो᳚धय जरितर्जा॒रमिन्द्र᳚म् ।
कोशं॒ न पू॒र्णं वसु᳚ना॒ न्यृ᳚ष्ट॒मा च्या᳚वय मघ॒देया᳚य॒ शूर᳚म् ॥
▶ पदपाठः (Word-by-word)
दोहे᳚न । गाम् । उप᳚ । शि॒क्ष॒ । सखा᳚यम् । प्र । बो॒ध॒य॒ । ज॒रि॒तः॒ । जा॒रम् । इन्द्र᳚म् ।
कोश᳚म् । न । पू॒र्णम् । वसु᳚ना । नि॑ऋ᳚ष्टम् । आ । च्य॒व॒य॒ । म॒घ॒॑देया᳚य । शूर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जरितस्त्वं दोहेन कामानां दोहनार्थं गां गोरूपं सखायं प्रियमिंद्रमुपशिक्ष वशं नय । किंच जारं भूतानां जरयितारमिद्रं प्रबोधय स्तुतिभिः प्रबुद्धं कुरु । किंच पूर्णमुदकेन पूरि- तं कोशं न पात्रमिव वारिभिः वसुना हिरण्यादिना धनेन न्यृष्टं नीचैर्गतं शूरं वीरमिंद्रं मघदेयाय धनदानाय च्यवय अभिमुखं कुर्वित्यर्थः ॥ २ ॥

10.42.3 समानपद
किम॒ङ्ग त्वा᳚ मघवन्भो॒जमा᳚हुः शिशी॒हि मा᳚ शिश॒यं त्वा᳚ शृणोमि ।
अप्न᳚स्वती॒ मम॒ धीर᳚स्तु शक्र वसु॒विदं॒ भग᳚मि॒न्द्रा भ᳚रा नः ॥
▶ पदपाठः (Word-by-word)
किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒॑व॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ।
अप्न᳚स्वती । मम᳚ । धीः । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒॑विद᳚म् । भग᳚म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंगेति सामान्याह्वानं अंग हे मघवन् धनवन् शक्रेंद्र त्वा वां किं किमर्थं भोजं स्तो- तॄणां भोजकमभीष्टदमाहुः सर्वे विद्वांसः यदि नददासीत्यध्यहारः तस्माद्ददास्येव स्तोतृ- भ्योधनानीत्यर्थः तथासति मा मां स्तोतारं शिशीहि धनदानेन तीक्ष्णीकुरु । त्वा त्वां शिशयं स्तोतॄणां संस्कर्तारं शृणोमि । किंच मम धीर्बुद्धिः अप्नस्वती कर्मवत्यस्तुभवतु । किंच नोस्माकं वसुविदं धनस्य लंभकं भगं भाग्यमाभर आहर ॥ ३ ॥

10.42.4
त्वां जना᳚ ममस॒त्येष्वि᳚न्द्र संतस्था॒ना वि ह्व᳚यन्ते समी॒के ।
अत्रा॒ युजं᳚ कृणुते॒ यो ह॒विष्मा॒न्नासु᳚न्वता स॒ख्यं व᳚ष्टि॒ शूरः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वाम् । जनाः᳚ । म॒म॒॑स॒त्येषु᳚ । इ॒न्द्र॒ । स॒म्॑त॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्॑ई॒के ।
अत्र᳚ । युज᳚म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा᳚न् । न । असु᳚न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वां जनाममसत्येषु संग्रामेषु विह्वयंते विविधमाह्वयंति सहायार्थम् । एतदेव दर्शयति—समीपे युक्ते संतस्थानाः सम्यक् तिष्ठंतोजनाविह्वयंतइति । अत्रास्मिन्नाह्वाने सशूरोवीरइंद्रस्तं युजं सखायं कृणुते कुरुते योहविष्मान् भवति असुन्वता सोमाभिषवम- कुर्वता पुरुषेण सह सख्यं सखित्वं न वष्टि न कामयते ॥ ४ ॥

10.42.5 समानपद
धनं॒ न स्य॒न्द्रं ब᳚हु॒लं यो अ᳚स्मै ती॒व्रान्त्सोमा{4}᳚ आसु॒नोति॒ प्रय᳚स्वान् ।
तस्मै॒ शत्रू᳚न्त्सु॒तुका᳚न्प्रा॒तरह्नो॒ नि स्वष्ट्रा᳚न्यु॒वति॒ हन्ति᳚ वृ॒त्रम् ॥
▶ पदपाठः (Word-by-word)
धन᳚म् । न । स्य॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा᳚न् । आ॒॑सु॒नोति᳚ । प्रय᳚स्वान् ।
तस्मै᳚ । शत्रू᳚न् । सु॒॑तुका᳚न् । प्रा॒तः । अह्नः᳚ । नि । सु॒॑अष्ट्रा᳚न् । यु॒वति᳚ । हन्ति᳚ । वृ॒त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रयस्वान् हविष्मान् योयजमानः स्पंद्रं स्पंदनशीलं गवाश्वादिकं बहुलं प्रभूतं धनं न यथा धनं दरिद्राय पात्रभूताय दातुं संस्कारोति तद्वदस्माइंद्राय तीव्रान् तीव्ररसान् सोमा नासुमोति अभिषुणोति अभिषवाख्येन संस्करेण संस्करोति तस्मै यजमानाय प्रातरह्नः पूर्वाह्वः सुतुकान् सुप्रेरणान् शोभनपुत्रन्वास्वष्ट्रान् ज्ञानायुधान् शत्रून् नियुवति सइंद्रः पृ- थक् करोति । किंच वृत्रं तदीयमुपद्रवं हंति हिनस्ति ॥ ५ ॥

10.42.6
यस्मि᳚न्व॒यं द᳚धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय᳚ म॒घवा॒ काम᳚म॒स्मे ।
आ॒राच्चि॒त्सन्भ᳚यतामस्य॒ शत्रु॒र्न्य᳚स्मै द्यु॒म्ना जन्या᳚ नमन्ताम् ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । व॒यम् । द॒धि॒म । शंस᳚म् । इन्द्रे᳚ । यः । शि॒श्राय᳚ । म॒घ॑वा᳚ । काम᳚म् । अ॒स्मे इति᳚ ।
आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रुः᳚ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या᳚ । न॒म॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्निंद्रे वयं घोषेयाः सुहस्त्याः शंसं स्तुतिं दधीम विदधीमः । यश्च मघवा धनवा- निंद्रोस्मेस्मासु काममभिलाषं शिश्राय श्रयति अस्येंद्रस्य शत्रुरारात् दूरएव संश्चित् सन्न- पि भयतां बिभेतु । किंचास्माइंद्राय जन्या जन्यानि शत्रुजनपदभवानि द्युम्ना द्युम्नानि अन्नानि निनमंतां प्रह्वीभवंतु भोजनीयानि भवंत्वित्यर्थः ॥ ६ ॥

10.42.7
आ॒राच्छत्रु॒मप᳚ बाधस्व दू॒रमु॒ग्रो यः शम्ब᳚ः पुरुहूत॒ तेन᳚ ।
अ॒स्मे धे᳚हि॒ यव᳚म॒द्गोम᳚दिन्द्र कृ॒धी धियं᳚ जरि॒त्रे वाज᳚रत्नाम् ॥
▶ पदपाठः (Word-by-word)
आ॒रात् । शत्रु᳚म् । अप᳚ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः᳚ । पु॒रु॒॑हू॒त॒ । तेन᳚ ।
अ॒स्मे इति᳚ । धे॒हि॒ । यव᳚॑मत् । गो॑म᳚त् । इ॒न्द्र॒ । कृ॒धि । धिय᳚म् । ज॒रि॒त्रे । वाज᳚॑रत्नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूत बहुभिराहूतेंद्र तव यउग्रउद्गूर्णः शंबोवज्रः तथाच यास्कः—शंबइति वज्र- नाम शमयतेर्वा शायतेर्वा इति । तेन वज्रेण शत्रुमस्मदरिं आरात् अस्मत्समीपात् दूरमप- बाधस्व त्वमपगमय । किंच अस्मे अस्मासु यवमत् यवयुक्तं गोमद्गोयुक्तं च धनं धेहि निधेहि । किंच जरित्रे स्तोत्रे मह्यं वाजरत्नां रमणीयान्नां धियं कर्म कृधि कुरु ॥ ७ ॥

10.42.8
प्र यम॒न्तर्वृ᳚षस॒वासो॒ अग्म᳚न्ती॒व्राः सोमा᳚ बहु॒लान्ता᳚स॒ इन्द्र᳚म् ।
नाह᳚ दा॒मानं᳚ म॒घवा॒ नि यं᳚स॒न्नि सु᳚न्व॒ते व᳚हति॒ भूरि᳚ वा॒मम् ॥
▶ पदपाठः (Word-by-word)
प्र । यम् । अ॒न्तः । वृ॒ष॒॑स॒वासः᳚ । अग्म᳚न् । ती॒व्राः । सोमाः᳚ । ब॒हु॒ल॑अ᳚न्तासः । इन्द्र᳚म् ।
न । अह᳚ । दा॒मान᳚म् । म॒घ॑वा᳚ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि᳚ । वा॒मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंतर्जठरे यमिंद्रं वृषसवासः वृषसवाः अग्नौ सोमस्य वर्षितृभिरध्वर्युभिरभिषुतास्तीव्रा स्तीव्ररसाबहुलांतासोबहुलमन्नादिकमंते येभ्यः ते बहुलांताः सोमाः प्राग्मन् प्रगच्छंति । समववा धनवानिंद्रः दामानं दातारं यजमानं नाह नैव नियंसत् नियच्छति किंतु सुन्वते सोमाभिषवं कुर्वते यजमानाय भूरि अधिकं वामं वननीयं धनं निवहति नितरां प्राप- यति ॥ ८ ॥

10.42.9
उ॒त प्र॒हाम᳚ति॒दीव्या᳚ जयाति कृ॒तं यच्छ्व॒घ्नी वि᳚चि॒नोति᳚ का॒ले ।
यो दे॒वका᳚मो॒ न धना᳚ रुणद्धि॒ समित्तं रा॒या सृ᳚जति स्व॒धावा᳚न् ॥
▶ पदपाठः (Word-by-word)
उ॒त । प्र॒॑हाम् । अ॒ति॒॑दीव्य᳚ । ज॒या॒ति॒ । कृ॒तम् । यत् । श्व॒॑घ्नी । वि॒॑चि॒नोति᳚ । का॒ले ।
यः । दे॒व॑का᳚मः । न । धना᳚ । रु॒ण॒द्धि॒ । सम् । इत् । तम् । रा॒या । सृ॒ज॒ति॒ । स्व॒धा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिचेंद्रः प्रहां प्रहंतारमतिदीव्यः अतिरभिपूजितार्थे वर्तते दीव्यतिर्गत्यर्थः अभिपू- जितं गमयित्वा जयाति जयति । किंच यत् यथा अत्र प्रकारवचनप्रत्ययस्य लोपोद्रष्टव्यः । श्वघ्नीकितवः कृतं कृतसमयं प्रति कितवं कितवानां मध्ये विचिनोति परिक्ष्यगृह्णाती तद्व दिंद्रः काले युद्धकाले बलवंतं शत्रुं परीक्ष्य वधार्थं गृह्णातीत्यर्थः । किंच योमनुष्योदेवका- मोदेवान् यष्टुं स्तोतुं वाभिलाषवान् भवति तस्यार्थाय धना धनानि न रुणाद्धि नावृणो- ति नाच्छादयतीत्यर्थः । किंतु प्रकाशयति स्वधावान् बलवानिंद्रः तं देवकामं राया धनेन संसृजतीत् संयाजयत्येव ॥ ९ ॥

10.42.10
गोभि᳚ष्टरे॒माम᳚तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् ।
व॒यं राज᳚भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ॥
▶ पदपाठः (Word-by-word)
गोभिः᳚ । त॒रे॒म॒ । अम᳚तिम् । दुः॒॑एवा᳚म् । यवे᳚न । क्षुध᳚म् । पु॒रु॒॑हू॒त॒ । विश्वा᳚म् ।
व॒यम् । राज᳚॑भिः । प्र॒थ॒मा । धना᳚नि । अ॒स्माके᳚न । वृ॒जने᳚न । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूत बहुभिराहूतेंद्र तव प्रसादात् दुरेवां दुष्टागमनां दारिद्भ्यादागताममतिं दुर्बु- द्धिं वयं घोषेयाः सुहस्त्यागोभिः पशुभिस्तरेम निस्तरेम । किंच यवेन विश्वां व्याप्तां क्षुधं तरेम । किंच प्रथमा मुख्यानि धनानि राजभिर्धनानामीश्वरैर्लभेमहीतिशॆषः । यद्वा प्रथमा- वयमिति संबंधः किंचास्माकेन अस्मदीयेन वृजनेन बलेन जयेम शत्रूनितिशेषः ॥ १० ॥

10.42.11 समानपद
बृह॒स्पति᳚र्न॒ः परि᳚ पातु प॒श्चादु॒तोत्त᳚रस्मा॒दध᳚रादघा॒योः ।
इन्द्र᳚ः पु॒रस्ता᳚दु॒त म᳚ध्य॒तो न॒ः सखा॒ सखि᳚भ्यो॒ वरि᳚वः कृणोतु ॥
▶ पदपाठः (Word-by-word)
बृह॒स्पतिः᳚ । नः॒ । परि᳚ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्॑त᳚रस्मात् । अध᳚रात् । अ॒घ॒॑योः ।
इन्द्रः᳚ । पु॒रस्ता᳚त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा᳚ । सखि᳚॑भ्यः । वरि᳚वः । कृ॒णो॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पश्चात्पश्चिमतः उतापिच उत्तरस्मात् उत्तरतः अधरात् दक्षिणतश्च योघायुरागच्छति तस्मादघायोः पापकाच्छत्रोर्नोस्मान् बृहस्पतिः परिपातु । उतापिचेद्रः पुरस्तात् पूर्वतोम- ध्यतश्च योघायुरागच्छति तस्मादघायोर्नोस्मान् परिपातु । किंच सखासखिभूतेंद्रः सखिभ्यः प्रियेभ्यो स्मभ्यं वरिवोधनं कृणोतु करोतु ॥ ११ ॥

चतुर्थेनुवाके अष्टादश सूक्तानि तत्राच्छामइत्येकादशर्चं प्रथमं सूक्तं दशम्येकादश्यौ त्रिष्टुभौ शिष्टाजगत्यः पूर्ववदृषिदेवते । तथाचानुक्रांतं—अच्छामे द्वित्रिष्टुबंतंत्विति । उक्थ्ये ब्राह्मणाच्छंसिनस्तृतीयसवनेएतत्सूक्तम् । सूत्रितंच—अच्छामइंद्रबृहस्पतेयुवमिंद्रश्चवस्वइति या- ज्ये इति । पृष्ठ्येहन्यप्येतत्सूक्तम् । सूत्रितंच—अच्छामइंद्रमिति नित्यमैकाहिकमिति ।