दशमं मण्डलम् - सूक्तम् 39

14 ऋचः

ऋषिः: काक्षिवती घोषा देवता: अश्विनौ छन्दः: जगती

सूक्तम् 10.39 - सम्पूर्णम्

1 / 14
ऋक्: 10.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
10.39.1
यो वां॒ परि᳚ज्मा सु॒वृद᳚श्विना॒ रथो᳚ दो॒षामु॒षासो॒ हव्यो᳚ ह॒विष्म᳚ता ।
श॒श्व॒त्त॒मास॒स्तमु᳚ वामि॒दं व॒यं पि॒तुर्न नाम᳚ सु॒हवं᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । परि᳚॑ज्मा । सु॒॑वृत् । अ॒श्वि॒ना॒ । रथः᳚ । दो॒षाम् । उ॒षसः᳚ । हव्यः᳚ । ह॒विष्म᳚ता ।
श॒श्व॒त्॑त॒मासः᳚ । तम् । ऊं॒ इति᳚ । वा॒म् । इ॒दम् । व॒यम् । पि॒तुः । न । नाम᳚ । सु॒॑हव᳚म् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ वां युवयोः परिज्मापरितोगंता सुवृत् सुष्ठु वर्तमानोयोरथोदोषां रात्रिं उषसश्च अहोरात्रयोरित्यर्थः हविष्मता यजमानेन हव्योह्वातव्यः वां युवयोः स्वभूतं सुहवं शोभनाह्वानं तमु तमेव रथं शश्वत्तमासोतिशयेन चिरंतनावयं पितुर्न यथा पितुरिदं नाम तथा हवामहे ह्वयाम ॥ १ ॥

10.39.2
चो॒दय᳚तं सू॒नृता॒ः पिन्व᳚तं॒ धिय॒ उत्पुरं᳚धीरीरयतं॒ तदु᳚श्मसि ।
य॒शसं᳚ भा॒गं कृ᳚णुतं नो अश्विना॒ सोमं॒ न चारुं᳚ म॒घव᳚त्सु नस्कृतम् ॥
▶ पदपाठः (Word-by-word)
चो॒दय᳚तम् । सू॒नृताः᳚ । पिन्व᳚तम् । धियः᳚ । उत् । पुर᳚म्॑धीः । ई॒र॒य॒त॒म् । तत् । उ॒श्म॒सि॒ ।
य॒शस᳚म् । भा॒गम् । कृ॒णु॒त॒म् । नः॒ । अ॒श्वि॒ना॒ । सोम᳚म् । न । चारु᳚म् । म॒घव᳚त्॑सु । नः॒ । कृ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ युवां सूनृतावाचउषसोवा चोदयतं प्रेरयतं अस्माकं धियः क- र्माणि च पिन्वतं पूरयतं पुरंधीर्बह्वीः प्रज्ञाश्चोदीरयतं उद्गमयतंप्रेरयतंउत्पादयतमित्य- र्थः । तदेतन्त्रयमुश्मसि वयं कामयामहे । किंच नोस्माकंयशसं यशस्विनं भागं भजनीयं धनादिकं कृणुतं कुरुतम् । चारुं कल्याणं सोमं न सोममिव नोस्मान्मघवत्सु धनवत्सु कृतं कुरुतं ॥ २ ॥

10.39.3
अ॒मा॒जुर᳚श्चिद्भवथो यु॒वं भगो᳚॑ना॒शोश्चि᳚दवि॒तारा᳚प॒मस्य᳚ चित् ।
अ॒न्धस्य᳚ चिन्नासत्या कृ॒शस्य᳚ चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚ रु॒तस्य᳚ चित् ॥
▶ पदपाठः (Word-by-word)
अ॒मा॒॑जुरः᳚ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः᳚ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा᳚ । अ॒प॒मस्य᳚ । चि॒त् ।
अ॒न्धस्य᳚ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य᳚ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा᳚ । रु॒तस्य᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या नासत्यौ युवं युवां अमाजुरश्चित् पितृगृहे जूर्यन्त्याअपि दुर्भगायाघोषायाः भगोभवथः शोभनरूपेणात्मानं परिणमय्य पतिं दत्तवंतौ स्थइत्यर्थः । तथा च निगमांतरं- घोषायैचित्पितृषदेदुरोणेपतिंजूर्यंत्याअश्विनावदत्तमिति । अनाशोश्चित् अनशनस्याप्यवितारा रक्षितारौ युवां भवथः अपमस्य चित् जात्यादिनिकृष्टस्यापि रक्षितारौ भवथः अंधस्य चित् चक्षुर्विकलस्यापि रक्षितारौ भवथः कृशस्य चित् दुर्बलस्यापि रक्षितारौ भवथः । किंच युवामित् युवामेव ऋतस्यचित् यज्ञस्यापि भिषजा भिषजौ वैद्यावाहुर्विद्वांसः ॥ ३ ॥

10.39.4
यु॒वं च्यवा᳚नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा᳚नं च॒रथा᳚य तक्षथुः ।
निष्टौ॒ग्र्यमू᳚हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव᳚नेषु प्र॒वाच्या᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । च्यवा᳚नम् । स॒नय᳚म् । यथा᳚ । रथ᳚म् । पुनः᳚ । युवा᳚नम् । च॒रथा᳚य । त॒क्ष॒थुः॒ ।
निः । तौ॒ग्र्यम् । ऊ॒ह॒थुः॒ । अ॒त्॑भ्यः । परि᳚ । विश्वा᳚ । इत् । ता । वा॒म् । सव᳚नेषु । प्र॒॑वाच्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवं युवां सनयं पुराणं च्यवानमृषिं यथा रथं जीर्णरथमिव पुनर्युवानं तरुणं चरथाय चरणार्थं तक्षथुः ततक्षथुः अकुरुतमित्यर्थः । तथाचयास्कः—युवां च्यवनं सनयं पुराणं यथारथं पुनर्युवानं चरणाय तक्षथुर्युवा प्रयौति कर्माणितक्षतिः करोति- कर्मेति । किंच युवां तौग्र्यं तुग्रपुत्रं भुज्युमद्भ्यः परि समुद्रस्योपरि निरूहथुः । किंच वां युवयोर्विश्वा विश्वानि ता तानि कर्माणि सवनेषु यज्ञेषु प्रवाच्या प्रवाच्यानि प्रकर्षेण वक्तव्यानि ॥ ४ ॥

10.39.5
पु॒रा॒णा वां᳚ वी॒र्या॒३॒᳚ प्र ब्र᳚वा॒ जने॑थो᳚ हासथुर्भि॒षजा᳚ मयो॒भुवा᳚ ।
ता वां॒ नु नव्या॒वव᳚से करामहे॒॑यं ना᳚सत्या॒ श्रद॒रिर्यथा॒ दध᳚त् ॥
▶ पदपाठः (Word-by-word)
पु॒रा॒णा । वा॒म् । वी॒र्या᳚ । प्र । ब्र॒व॒ । जने᳚ । अथो॒ इति᳚ । ह॒ । आ॒स॒थुः॒ । भि॒षजा᳚ । म॒यः॒॑भुवा᳚ ।
ता । वा॒म् । नु । नव्यौ᳚ । अव᳚से । क॒रा॒म॒हे॒ । अ॒यम् । ना॒स॒त्या॒ । श्रत् । अ॒रिः । यथा᳚ । दध᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोः पुराणा पुराणानि वीर्या वीर्याणि जने लोके प्रब्रव प्रब्रवीमि । अथो अपिच हे नासत्या नासत्यौ युवां मयोभुवा सुखस्य भावयितारौ भिषजा भिषजौ वैद्यौ आसथुः बभूवथुः ता तौ वां युवामवसे रक्षणाय नव्यौ स्तुत्यौ नु क्षिप्रं करामहे कुर्मः अयम रिर्गंता पतिः यजमानोयथा श्र्द्दधत् श्रद्दध्यादिति ॥ ५ ॥

10.39.6
इ॒यं वा᳚मह्वे शृणु॒तं मे᳚ अश्विना पु॒त्राये᳚व पि॒तरा॒ मह्यं᳚ शिक्षतम् ।
अना᳚पि॒रज्ञा᳚ असजा॒त्याम᳚तिः पु॒रा तस्या᳚ अ॒भिश᳚स्ते॒रव᳚ स्पृतम् ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । वा॒म् । अ॒ह्वे॒े । शृ॒णु॒तम् । मे॒ । अ॒श्वि॒ना॒ । पु॒त्राय᳚॑इव । पि॒तरा᳚ । मह्य᳚म् । शि॒क्ष॒त॒म् ।
अना᳚पिः । अज्ञाः᳚ । अ॒स॒जा॒त्या । अम᳚तिः । पु॒रा । तस्याः᳚ । अ॒भि॑श᳚स्तेः । अव᳚ । स्पृ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आश्वना अश्विनौ वां युवामियं घोषाहं अह्वे आह्वयामि मे मम संबंधिनमिममा ह्वान श्रृणुतं श्रुत्वा चाह्वानं मह्यं पुत्रायेव यथा पुत्राय पितरा मातापितरौ तद्वत् शि- क्षतं धनं दत्तं अनापिरबंधुरज्ञा अकृतज्ञा असजात्या अमतिः अश्रद्धेया चाभिशस्तिः मामा गच्छति तस्याः अभिशस्तेः पुरा प्रागेव अवस्पृतं मामवपारयतं ॥ ६ ॥

10.39.7 समानपद
यु॒वं रथे᳚न विम॒दाय᳚ शु॒न्ध्युवं॒ न्यू᳚हथुः पुरुमि॒त्रस्य॒ योष᳚णाम् ।
यु॒वं हवं᳚ वध्रिम॒त्या अ᳚गच्छतं यु॒वं सुषु᳚तिं चक्रथु॒ः पुरं᳚धये ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । रथे᳚न । वि॒॑म॒दाय᳚ । शु॒न्ध्युव᳚म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒॑मि॒त्रस्य᳚ । योष᳚णाम् ।
यु॒वम् । हव᳚म् । व॒ध्रि॒॑म॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सु॑सु᳚तिम् । च॒क्र॒थुः॒ । पुर᳚म्॑धये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवं पुरुमित्रस्य पुरुमित्रनामधेयस्य योषणां दुहितरं शुंध्युवं नाम जायां विमदाय विमदनामधेयाय ऋषये रथेन स्वसेनापरिवृतेन रथेन न्यूहथुः प्रापयतं विम- दस्य गृहं नीतवंतौ स्थइत्यर्थः । तथाचनिगमांतरं—यावर्भगायविमदायजायांसेनाजुवान्यूह तूरथेनेति । किंच युवं युवां वध्रिमत्याः संग्रामे शत्रुभिः छिन्नहस्तायाहवमाह्वानमगच्छतं आगत्य तस्यै हिरण्मयं हस्तं प्रयच्छतम् । तथाचनिगमांतरं—अजोहवीन्नासत्याकरावांमहेया मन्पुरुभुजापुरंधिः । श्रुतंतच्छासुरिववध्रिमत्याहिरण्यहस्तमश्विनावदत्तमिति । किंच युवं युवां पुरंधये बहुप्रज्ञायै वध्रिमत्यै सुषुतिं सुप्रसवं शोभनमैश्वर्यं वा चक्रथुः कृतवंतौस्थः ॥ ७ ॥

10.39.8
यु॒वं विप्र᳚स्य जर॒णामु᳚पे॒युष॒ः पुनः᳚ क॒लेर᳚कृणुतं॒ युव॒द्वयः᳚ ।
यु॒वं वन्द᳚नमृश्य॒दादुदू᳚पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत᳚वे कृथः ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । विप्र᳚स्य । ज॒र॒णाम् । उ॒प॒॑ई॒युषः᳚ । पुन॒रिति᳚ । क॒लेः । अ॒कृ॒णु॒त॒म् । युव᳚त् । वयः᳚ ।
यु॒वम् । वन्द᳚नम् । ऋ॒श्य॒॑दात् । उत् । ऊ॒प॒थुः॒ । यु॒वम् । स॒द्यः । वि॒श्पला᳚म् । एत᳚वे । कृ॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवं युवां विप्रस्य मेधाविनः जरणां जरां उपेयुषः उपगतवतः कलेः क- लिनामधेयस्य ऋषेः वयः पुनरपि युवत् युवत्वयुक्तं अकृणुतं अकुरुतम् । तथाचनिगमांतरं- कलिंयाभिर्वित्तजानिंदुवस्यथइति । किंच युवं युवां वंदनं जायावियोगसंतापेन कूपपतितं वंदनाख्यमृषिमृश्यदात् कूपादुदूपथुः उदैरयतम् । तथाचनिगमांतरं—उद्वंदनमैरयतंस्वर्दृशइति । किंच युवं युवां विश्पलां खेलस्य राज्ञः सेनायां योध्रीविश्पलानाम काचित् स्त्री तां सं- ग्रामे शत्रुभिः छिन्नजंघांसद्यस्तदैव एतवे गमनाय कृथः अकुरुतम् । तथाचनिगमांतरं—चरि- त्रंहिवैरिवाच्छेदिपर्णमाजाखेलस्यपरितक्म्यायाम् । सद्योजंघामायसींविश्पलायैधनेहितेसर्तवेप्र- त्यधत्तमिति ॥ ८ ॥

10.39.9
यु॒वं ह᳚ रे॒भं वृ᳚षणा॒ गुहा᳚ हि॒तमुदै᳚रयतं ममृ॒वांस᳚मश्विना ।
यु॒वमृ॒बीस᳚मु॒त त॒प्तमत्र᳚य॒ ओम᳚न्वन्तं चक्रथुः स॒प्तव᳚ध्रये ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । ह॒ । रे॒भम् । वृ॒ष॒णा॒ । गुहा᳚ । हि॒तम् । उत् । ऐ॒र॒य॒त॒म् । म॒मृ॒॑वांस᳚म् । अ॒श्वि॒ना॒ ।
यु॒वम् । ऋ॒बीस᳚म् । उ॒त । त॒प्तम् । अत्र᳚ये । ओम᳚न्॑वन्तम् । च॒क्र॒थुः॒ । स॒प्त॑व᳚ध्रये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषणा वर्षितारावश्विना अश्विनौ युवं युवां गुहा गुहायां हितं असुरैर्निहितं ममृ- वांसं म्रियमाणं रेभं रेभाख्यमृषिं उदैरयतं उत्तारितवंतौस्थः । तथाचनिगमांतरं—दशरात्री रशिवेनानवद्यूनवनद्धंश्नथितमप्स्वंतः । विप्रुतंरेभमुदनिप्रवृक्तमुन्निन्यथुः सोममिवस्रुवेणेति । उत किंच युवं युवां तप्तमृबीसं अग्निकुंडं अत्रये अत्रेरर्थाय ओमन्वंतं अवनवंतं चक्रथुः वृष्ट्या विशमय्य शीतं कृतवंतौस्थइत्यर्थः । तथाचनिगमांतरं—हिमेनाग्निंघ्रंसमवारयेथांपितुमतीमूर्ज मस्माअधत्तम् । ऋबीसेअत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणंस्वस्तीति । किंच युवां सप्तवध्रये अश्वमेधेन राज्ञा केनचिदपराधेन काष्ठमयमंजूषायां निहितस्य सप्तवध्रिनामधेयस्य ऋषेर- र्थाय चक्रथुः मंजूषोद्घाटनं कृतवंतौ स्थइत्यर्थः । तथाचनिगप्रांतरं—विजिहीष्ववनस्पतेयो- निः सूष्यंत्याइव । श्रुतंमेअश्विनाहवंसप्तवध्रिंचमुंचतमिति ॥ ९ ॥

10.39.10
यु॒वं श्वे॒तं पे॒दवे᳚॑श्वि॒नाश्वं᳚ न॒वभि॒र्वाजै᳚र्नव॒ती च᳚ वा॒जिन᳚म् ।
च॒र्कृत्यं᳚ ददथुर्द्राव॒यत्स᳚खं॒ भगं॒ न नृभ्यो॒ हव्यं᳚ मयो॒भुव᳚म् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । श्वे॒तम् । पे॒दवे᳚ । अ॒श्वि॒ना॒ । अश्व᳚म् । न॒व॑भिः᳚ । वाजैः᳚ । न॒व॒ती । च॒ । वा॒जिन᳚म् ।
च॒र्कृत्य᳚म् । द॒द॒थुः॒ । द्र॒व॒यत्॑स᳚खम् । भग᳚म् । न । नृ॑भ्यः᳚ । हव्य᳚म् । म॒यः॒॑भुव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ युवं युवां पेदवे पेदुनामधेयाय राज्ञे श्वेतं श्वेतवर्णं वाजिनं बलिनं नवभिर्नवती नवत्या चाश्वैः सहितं चर्कृत्यं संग्रामाणां अत्यर्थं कर्तारं शत्रूणां जेतारं वा द्रवयत्सखंशत्रुसखानां द्रावयितारं हव्यं ह्वातव्यं मयोभुवं सुखस्य भावयितारं अश्वं नृ- भ्योमनुष्येभ्योभगं न भजनीयं धनमिव ददथुः प्रायच्छतं ॥ १० ॥

10.39.11
न तं रा᳚जानावदिते॒ कुत᳚श्च॒न नांहो᳚ अश्नोति दुरि॒तं नकि᳚र्भ॒यम् ।
यम᳚श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ᳚णु॒थः पत्न्या᳚ स॒ह ॥
▶ पदपाठः (Word-by-word)
न । तम् । रा॒जा॒नौ॒ । अ॒दि॒ते॒ । कुतः᳚ । च॒न । न । अंहः᳚ । अ॒श्नो॒ति॒ । दुः॒॑इ॒तम् । नकिः᳚ । भ॒यम् ।
यम् । अ॒श्वि॒ना॒ । सु॒॑ह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति᳚ रुद्र॑वर्तनी । पु॒रः॒॑र॒थम् । कृ॒णु॒थः । पत्न्या᳚ । स॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजानावीश्वरौ अदिते अदीनौ सुहवा स्वाह्वानौ रुद्रवर्तनी स्तोत्रयुक्तमार्गौ हे अ- श्विना अश्विनौ युवां यं जनं पुरोरथं अग्रतोरथं पत्न्या सह स्वयंवरे कृणुथः कुरुथः तंजनं कुतश्चन कुतोपि अंहः पापं नाश्नोति नव्याप्नोति दुरितं दुर्गतिरपिनाश्नोति नकिः नच भयं प्राप्नोति ॥ ११ ॥

10.39.12
आ तेन᳚ यातं॒ मन᳚सो॒ जवी᳚यसा॒ रथं॒ यं वा᳚मृ॒भव᳚श्च॒क्रुर᳚श्विना ।
यस्य॒ योगे᳚ दुहि॒ता जाय᳚ते दि॒व उ॒भे अह᳚नी सु॒दिने᳚ वि॒वस्व᳚तः ॥
▶ पदपाठः (Word-by-word)
आ । तेन᳚ । या॒त॒म् । मन᳚सः । जवी᳚यसा । रथ᳚म् । यम् । वा॒म् । ऋ॒भवः᳚ । च॒क्रुः । अ॒श्वि॒ना॒ ।
यस्य᳚ । योगे᳚ । दु॒हि॒ता । जाय᳚ते । दि॒वः । उ॒भे इति᳚ । अह᳚नी॒ इति᳚ । सु॒दिने॒ इति᳚ सु॒॑दिने᳚ । वि॒वस्व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ वां युवयोर्यं रथं ऋभवश्चक्रुः अकार्षुः यस्य रथस्य योगे संबंधे सति दिवोदुहितोषाः जायते प्रादुर्भवति यस्य च योगे विवस्वतोभास्करादुभे अहनी अहोरात्रे सुदिने शोभने जायेते तेन रथेन मनसोपि जवीयसा वेगवत्तरेणायातं युवामा- गच्छतमस्मान् ॥ १२ ॥

10.39.13
ता व॒र्तिर्या᳚तं ज॒युषा॒ वि पर्व᳚त॒मपि᳚न्वतं श॒यवे᳚ धे॒नुम᳚श्विना ।
वृक᳚स्य चि॒द्वर्ति᳚काम॒न्तरा॒स्या᳚द्यु॒वं शची᳚भिर्ग्रसि॒ताम᳚मुञ्चतम् ॥
▶ पदपाठः (Word-by-word)
ता । व॒र्तिः । या॒त॒म् । ज॒युषा᳚ । वि । पर्व᳚तम् । अपि᳚न्वतम् । श॒यवे᳚ । धे॒नुम् । अ॒श्वि॒ना॒ ।
वृक᳚स्य । चि॒त् । वर्ति᳚काम् । अ॒न्तः । आ॒स्या᳚त् । यु॒वम् । शची᳚भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ ता तौ युवां जयुषा जयशीलेन रथेन पर्वतं अद्रिंप्रति वर्तिमार्गं वियातं विविधं गच्छथः । तथाचनिगमांतरं—विजयुषारथ्यायातमद्रिंश्रुतंहवंवृषणावध्रिमत्या इति । किंच युवं शयवे शयोरर्थाय धेनुं अपिन्वतं निवृत्तप्रसवां वृद्धां गां प्रभूतस्य पयसो दोगध्रीं कृतवंतौ स्थइत्यर्थः । तथाचनिगमांतरं—युवंधेनुंशयवेनाधितायापिन्वतमश्विनापूर्व्या यम् । किंच युवं युवां वृकस्यांतरनुप्रविष्टां ग्रसितां वृकेण ग्रस्तां वर्तिकां वर्तिकानाम चटका तामास्यात् वृकस्य मुखात् शचीभिः प्रज्ञाभिः कर्मभिर्वा अमुंचतं अमोचयतम् । तथाचनिग- मांतरं—अजोहवीदश्विनावर्तिकावामास्नोयत्सीममुंचतंवृकस्येति ॥ १३ ॥

10.39.14
ए॒तं वां॒ स्तोम᳚मश्विनावक॒र्मात᳚क्षाम॒ भृग᳚वो॒ न रथ᳚म् ।
न्य᳚मृक्षाम॒ योष᳚णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन᳚यं॒ दधा᳚नाः ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । वा॒म् । स्तोम᳚म् । अ॒श्वि॒नौ॒ । अ॒क॒र्म॒ । अत᳚क्षाम । भृग᳚वः । न । रथ᳚म् ।
नि । अ॒मृ॒क्षा॒म॒ । योष᳚णाम् । न । मर्ये᳚ । नित्य᳚म् । न । सू॒नुम् । तन᳚यम् । दधा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोः एतं यथोक्तं स्तोमं स्तोत्रं अकर्म अकुमं तदेवाह—भृगवोन भृगवइव रथं अतक्षाम वयं स्तोत्रं संस्कृतवंतः कर्मयोगादृभवोभृगवउच्यंते । अथवा रथ काराभृगवः । किंच वयं नित्यं शाश्वतं तनयं यागादीनां कर्मणां तनितारं सूनुं न औरसं पुत्रमिव स्तोमं दधानाधारयंतोमर्थे मनुष्ये न्यमृक्षाम युवयोः स्तुतिं नितरां संस्कृतवंतः । तत्रदृष्टांतः—योषणां न यथा जायां तद्वदित्यर्थः ॥ १४ ॥

रथंयांतमितिचतुर्दशर्चमेकादशं सूक्तं काक्षीवत्याघोषायाआर्षं जागतमाश्विनम् । रथंयांत- मित्यनुक्रांतम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।