सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह᳚स्कृतेन॒ सह᳚सा॒ सह᳚स्वता ॥
पदपाठः (Word-by-word)
सा॒ह्याम᳚ । दास᳚म् । आर्य᳚म् । त्वया᳚ । यु॒जा । सहः᳚॑कृतेन । सह᳚सा । सह᳚स्वता ॥
सायणभाष्यम् (Sayana Commentary)
यस्ते मन्यो इति सप्तर्चं पञ्चदशं सूक्तम्। मन्युर्नाम तपसः पुत्र ऋषिः। आद्या जगती शिष्टास्त्रिष्टुभः। इदमुत्तरं च मन्युदैवतम्। तथा चानुक्रान्तम्। यस्ते मन्यो मन्युस्तापसो मान्यवं तु जगत्यादीति। अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम्। सुत्रितं च। त्वया मन्यो यस्ते मन्यो। आ. ९-७। इति॥
हे मन्यो क्रोधाभिमानिन्देव। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वेति निरुक्तम्। १०-२९। यो यजमानस्ते तुभ्यमविधत् परिचरति हे वज्र वज्रवत्सारभूत सायक सायकवच्छत्रूणां हिंसक स मनुष्यः सहो बलं वाह्यमोजः शारीरं बलं चानुषगनुषक्तं पुष्यति त्वदनुग्रहत्सङ्ग्रामे। यस्मादेवं तस्माद्वयं दासमुपक्षयकर्तारमार्यमस्मत्तोऽधिकं चोभयविधं शत्रुं साह्याम। अभिभवेम। केन साधनेनेति तद्युच्यते। त्वया युजा त्वया सहायेन। सहायो विशेश्यते। सहस्कृतेन बलोत्पादितेन सहसा सहमानेन परान् सह्वता बलवता। ईदृशेन त्वया सहायेनेत्यर्थः॥१॥